Loading...
ऋग्वेद मण्डल - 10 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 67/ मन्त्र 1
    ऋषिः - अयास्यः देवता - बृहस्पतिः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् । तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ॥

    स्वर सहित पद पाठ

    इ॒माम् । धिय॑म् । स॒प्तऽशी॑र्ष्णीम् । पि॒ता । नः॒ । ऋ॒तऽप्रजाताम् । बृ॒ह॒तीम् । अ॒वि॒न्द॒त् । तु॒रीय॑म् । स्वि॒त् । ज॒न॒य॒त् । वि॒श्वऽज॑न्यः । अ॒यास्यः॑ । उ॒क्थम् । इन्द्रा॑य । शंस॑न् ॥


    स्वर रहित मन्त्र

    इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् । तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥

    स्वर रहित पद पाठ

    इमाम् । धियम् । सप्तऽशीर्ष्णीम् । पिता । नः । ऋतऽप्रजाताम् । बृहतीम् । अविन्दत् । तुरीयम् । स्वित् । जनयत् । विश्वऽजन्यः । अयास्यः । उक्थम् । इन्द्राय । शंसन् ॥ १०.६७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 67; मन्त्र » 1
    अष्टक » 8; अध्याय » 2; वर्ग » 15; मन्त्र » 1

    पदार्थः -
    (पिता) पालयिता परमात्मा (इमां सप्तशीर्ष्णीम्-ऋतप्रजातां बृहतीं धियं नः-अविन्दत्) एतां सप्तछन्दोरूपशिरोवतीं स्वकीयज्ञाने जातां बृहद्विषयिकां वेदवाचम् “वाग्वै धीः” [काश० ४।२।४।१३] “धीरसीति ध्यायेत हि वाचेत्थं चेत्थं च” [काठ० २४।३] अस्मान् प्रापयति-उपदिशति (विश्वजन्यः) विश्वं जन्यं यस्मात् स विश्वस्य जनयिता (अयास्यः) यासं प्रयत्नमनपेक्ष्यमाणः सहजस्वभावकः परमात्मा (तुरीयं स्वित्-जनयत्) धर्मार्थकाममोक्षेषु चतुर्थं मोक्षं प्रादुर्भावयति प्रयच्छति (इन्द्राय-उक्थं शंसत्) आत्मने वेदवाचं यः शंसति-उपदिशति “वागुक्थम्” [षड्विं १।५] ॥१॥

    इस भाष्य को एडिट करें
    Top