Loading...
ऋग्वेद मण्डल - 10 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 67/ मन्त्र 2
    ऋषिः - अयास्यः देवता - बृहस्पतिः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥

    स्वर सहित पद पाठ

    ऋ॒तम् । शंस॑न्तः । ऋ॒जु । दीध्या॑नाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । विप्र॑म् । प॒दम् । अङ्गि॑रसः । दधा॑नाः । य॒ज्ञस्य॑ । धाम॑ । प्र॒थ॒मम् । म॒न॒न्त॒ ॥


    स्वर रहित मन्त्र

    ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः । विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥

    स्वर रहित पद पाठ

    ऋतम् । शंसन्तः । ऋजु । दीध्यानाः । दिवः । पुत्रासः । असुरस्य । वीराः । विप्रम् । पदम् । अङ्गिरसः । दधानाः । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥ १०.६७.२

    ऋग्वेद - मण्डल » 10; सूक्त » 67; मन्त्र » 2
    अष्टक » 8; अध्याय » 2; वर्ग » 15; मन्त्र » 2

    पदार्थः -
    (ऋतं शंसन्तः) वेदज्ञानं प्रशंसन्तः उपदिशन्तः (ऋजुदीध्यानाः) सरलस्वभावं ब्रह्म ध्यायन्तः (दिवः-पुत्रासः) ज्ञानप्रकाशकस्य परमात्मनः पुत्रा इव परमर्षयः (असुरस्य वीराः) प्राणप्रदस्य परमात्मनो ज्ञानिनः (अङ्गिरसः) अङ्गानामीरयितारः संयमिनः (विप्रं पदं दधानाः) विशेषेण प्रीणयितारं प्रापणीयं परमात्मानं धारयन्तः-उपासकाः (यज्ञस्य प्रथमं धाम मनन्त) यजनीयस्य सङ्गमनीयस्य परमात्मनः प्रमुखं धाम स्वरूपं मन्यन्ते ॥२॥

    इस भाष्य को एडिट करें
    Top