Loading...
ऋग्वेद मण्डल - 10 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 67/ मन्त्र 3
    ऋषिः - अयास्यः देवता - बृहस्पतिः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् । बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥

    स्वर सहित पद पाठ

    हं॒सैःऽइ॑व । सखि॑ऽभिः । वाव॑दत्ऽभिः । अ॒श्म॒न्ऽमया॑नि । नह॑ना । वि॒ऽअस्य॑न् । बृह॒स्पतिः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । उ॒त । प्र । अ॒स्तौ॒त् । उत् । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥


    स्वर रहित मन्त्र

    हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् । बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वाँ अगायत् ॥

    स्वर रहित पद पाठ

    हंसैःऽइव । सखिऽभिः । वावदत्ऽभिः । अश्मन्ऽमयानि । नहना । विऽअस्यन् । बृहस्पतिः । अभिऽकनिक्रदत् । गाः । उत । प्र । अस्तौत् । उत् । च । विद्वान् । अगायत् ॥ १०.६७.३

    ऋग्वेद - मण्डल » 10; सूक्त » 67; मन्त्र » 3
    अष्टक » 8; अध्याय » 2; वर्ग » 15; मन्त्र » 3

    पदार्थः -
    (बृहस्पतिः) बृहतां वेदवाचां स्तुतीनां पतिः पालयिता महायोगी विद्वान् (हंसैः-इव वावदद्भिः-सखिभिः) पापाज्ञानहन्तृभिः स्तुतिवचनं ब्रुवद्भिः सह (अश्मन्मयानि नहना) विषयपाषाणमयानि कठिनानि बन्धनानि “णह बन्धने” [दिवादिः] (व्यस्यत्) विक्षिपति छिनत्ति (गाः-अभिकनिक्रदत्) वाचः पुनः पुनरतिशयेन वदति (उत) अपि (विद्वान् प्रास्तौत्) स विद्वान् परमात्मानं स्तौति (च) अन्यच्च (अगायत्) तं गायति वर्णयति ॥३॥

    इस भाष्य को एडिट करें
    Top