Loading...
ऋग्वेद मण्डल - 10 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 67/ मन्त्र 4
    ऋषिः - अयास्यः देवता - बृहस्पतिः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑ । बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आव॑: ॥

    स्वर सहित पद पाठ

    अ॒वः । द्वाभ्या॑म् । प॒रः । एक॑या । गाः । गुहा॑ । तिष्ठ॑न्तीः । अनृ॑तस्य । सेतौ॑ । बृह॒स्पतिः॑ । तम॑सि । ज्योतिः॑ । इ॒च्छन् । उत् उ॒स्राः । आ । अ॒कः॒ । वि । हि । ति॒श्रः । आव॒रित्यावः॑ ॥


    स्वर रहित मन्त्र

    अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ । बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आव: ॥

    स्वर रहित पद पाठ

    अवः । द्वाभ्याम् । परः । एकया । गाः । गुहा । तिष्ठन्तीः । अनृतस्य । सेतौ । बृहस्पतिः । तमसि । ज्योतिः । इच्छन् । उत् उस्राः । आ । अकः । वि । हि । तिश्रः । आवरित्यावः ॥ १०.६७.४

    ऋग्वेद - मण्डल » 10; सूक्त » 67; मन्त्र » 4
    अष्टक » 8; अध्याय » 2; वर्ग » 15; मन्त्र » 4

    पदार्थः -
    (बृहस्पतिः) वेदवाचः पालयिता महाविद्वान् (द्वाभ्याम्-अवः) मननविज्ञानाभ्याम्, अवः-अवरव्यवहारे व्यवहारनिमित्तम् (एकया परः) एकया विज्ञानवत्तया प्रज्ञया परस्मिन् अध्यात्मक्षेत्रे मोक्षे मोक्षार्थं (गुहा तिष्ठन्तीः-गाः) सूक्ष्मतायामध्यात्मधारायां वा विराजमानाः स्तुतीः (अनृतस्य सेतौ) तथा अनृतस्य नश्वरस्य संसारस्य बन्धने पुनः पुनः संसारप्रवृत्तौ या वर्तते (तमसि ज्योतिः-इच्छन्) अन्धकारे प्रकाशमिच्छन्निव (उस्राः-उत्-अकः) रश्मीन् चेतनाः “उस्राः रश्मिनाम” [निघ० १।५] उत्प्रेरयति (तिस्रः-वि-आवः) तिस्रो वाचो विद्यास्त्रयीवेदरूपा स्वाभ्यन्तरे प्रकटयति, अन्येषु च ॥४॥

    इस भाष्य को एडिट करें
    Top