ऋग्वेद - मण्डल 10/ सूक्त 77/ मन्त्र 5
ऋषिः - स्यूमरश्मिर्भार्गवः
देवता - मरूतः
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु । श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुष॑: ॥
स्वर सहित पद पाठयू॒यम् । धूः॒ऽसु । प्र॒ऽयुजः॑ । न । र॒श्मिऽभिः॑ । ज्योति॑ष्मन्तः । न । भा॒सा । विऽउ॑ष्टिषु । श्ये॒नासः॑ । न । स्वऽय॑शसः । रि॒शाद॑सः । प्र॒वासः॑ । न । प्रऽसि॑तासः । प॒रि॒ऽप्रुषः॑ ॥
स्वर रहित मन्त्र
यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासा व्युष्टिषु । श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुष: ॥
स्वर रहित पद पाठयूयम् । धूःऽसु । प्रऽयुजः । न । रश्मिऽभिः । ज्योतिष्मन्तः । न । भासा । विऽउष्टिषु । श्येनासः । न । स्वऽयशसः । रिशादसः । प्रवासः । न । प्रऽसितासः । परिऽप्रुषः ॥ १०.७७.५
ऋग्वेद - मण्डल » 10; सूक्त » 77; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 10; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 10; मन्त्र » 5
पदार्थः -
(यूयम्) हे विद्वांसः ! यूयं (धूषु-प्रयुजः) धारणीयेषु ज्ञानप्रबन्धेषु “धूर्वते धूर्धारयतेर्वा-अस्मान्” [निरु० ३।९] प्रयोक्तारः प्रकृष्टेन नियोक्तारः सन्तः (रश्मिभिः-न) यथा प्रग्रहैरश्वान् प्रयोजयन्ति तथाऽस्मान् प्रयोजयितारः सन्तः (भासा-ज्योतिष्मन्तः-न) यथा वा ज्योतिषा ज्ञानज्योतिषा ज्ञानप्रकाशवन्तः (व्युष्टिषु) विशिष्टज्ञानस्थलीषु जनेभ्यो ज्ञानज्योतिः प्रयच्छन्ति, तद्वत्, (श्येनासः-न स्वयशसः) यद्वा यथा शंसनीयाः स्वाधारयशस्विनो महात्मानस्तथा किं वा (रिशादसः प्रवासः-न) हिंसकान् दोषान् क्षेप्तारः प्रवसन्तोऽतिथयः प्रवक्तारः (प्रसितासः परिप्रुषः) प्रकृष्टनिर्मलाः पवित्राचरणा जनान् स्वोपदेशेनामृतेन परितः सिञ्चन्ति ये तथाभूता अस्माननुगृह्णन्तु ॥५॥