ऋग्वेद - मण्डल 10/ सूक्त 77/ मन्त्र 6
ऋषिः - स्यूमरश्मिर्भार्गवः
देवता - मरूतः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्व॑: । वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योत ॥
स्वर सहित पद पाठप्र । यत् । वह॑ध्वे । म॒रु॒तः॒ । प॒रा॒कात् । यू॒यम् । म॒हः । स॒म्ऽवर॑णस्य । वस्वः॑ । वि॒दा॒नासः॑ । व॒स॒वः॒ । राध्य॑स्य । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒त॒ ॥
स्वर रहित मन्त्र
प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्व: । विदानासो वसवो राध्यस्याराच्चिद्द्वेष: सनुतर्युयोत ॥
स्वर रहित पद पाठप्र । यत् । वहध्वे । मरुतः । पराकात् । यूयम् । महः । सम्ऽवरणस्य । वस्वः । विदानासः । वसवः । राध्यस्य । आरात् । चित् । द्वेषः । सनुतः । युयोत ॥ १०.७७.६
ऋग्वेद - मण्डल » 10; सूक्त » 77; मन्त्र » 6
अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 1
पदार्थः -
(वसवः-मरुतः-यूयम्) हे वासयितारो विद्वांसः ! यूयं (यत्) यदा (पराकात्) परात्-प्रकृष्टान्मोक्षधाम्नः (महः संवरणस्य वस्वः राध्यस्य) महत् संवरणीयं ग्रहणीयं वसुमोक्षानन्दधनं “राध्यं संसेव्यम्” द्वितीयास्थाने षष्ठी व्यत्ययेन (वहध्वे) प्रापयत निजाध्यात्मप्रवचनेन, तदा (आरात्-चित्) अन्तःस्थानात्-अस्माकमन्तरात् खलु (सनुतः-द्वेषः-युयोत) अन्तर्हिताः [“सनुतः-निर्णीतान्तर्हितनाम” निघ० ३।२५] द्वेषभावनाः पृथक् कुरुतेति युष्माकं महती कृपा ॥६॥