ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 2
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥
स्वर सहित पद पाठवि॒श्वऽक॑र्मा । विऽम॑नाः । आत् । विऽहा॑याः । धा॒ता । वि॒ऽधा॒ता । प॒र॒मा । उ॒त । स॒म्ऽदृक् । तेषा॑म् । इ॒ष्टानि॑ । सम् । इ॒षा । म॒द॒न्ति॒ । यत्र॑ । स॒प्त॒ऽऋ॒षीन् । प॒रः । एक॑म् । आ॒हुः ॥
स्वर रहित मन्त्र
विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥
स्वर रहित पद पाठविश्वऽकर्मा । विऽमनाः । आत् । विऽहायाः । धाता । विऽधाता । परमा । उत । सम्ऽदृक् । तेषाम् । इष्टानि । सम् । इषा । मदन्ति । यत्र । सप्तऽऋषीन् । परः । एकम् । आहुः ॥ १०.८२.२
ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 2
पदार्थः -
(विश्वकर्मा) विश्वरचयिता परमात्मा (विमनाः) विभूतमनाः-अतिशयितमननशक्तिमान् (विहायाः) व्यापकः (धाता) जगतो धारयिता (विधाता) कर्मफलविधायकः (परमा सन्दृक्) परमः सन्दर्शयितेन्द्रियविषयाणाम् “लिङ्व्यत्ययश्छान्दसः” (तेषाम्-इष्टानि) तेषामिन्द्रियाणामिष्टानि विषयसुखानि (इषा-सम्-मदन्ति) तत्प्रेरणया जनाः सम्यगानन्देनानुभवन्ति (यत्र सप्त-ऋषीन्) यस्मिन् सप्तछन्दोयुक्ताः मन्त्राः सन्ति “व्यत्ययेन द्वितीया” (परः-एकम्-आहुः) परः परिपाप्यः पारवर्त्तमानोऽस्ति, तमकेमधिष्ठातारं ते मन्त्राः कथयन्ति ॥२॥