Loading...
ऋग्वेद मण्डल - 10 के सूक्त 82 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 3
    ऋषिः - विश्वकर्मा भौवनः देवता - विश्वकर्मा छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यो न॑: पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥

    स्वर सहित पद पाठ

    यः । नः॒ । पि॒ता । ज॒नि॒ता । यः । वि॒ऽधा॒ता । धामा॑नि । वेद॑ । भुव॑नानि । विश्वा॑ । यः । दे॒वाना॑म् । ना॒म॒ऽधाः । एकः॑ । ए॒व । तम् । स॒म्ऽप्र॒श्नम् । भुव॑ना । य॒न्ति॒ । अ॒न्या ॥


    स्वर रहित मन्त्र

    यो न: पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या ॥

    स्वर रहित पद पाठ

    यः । नः । पिता । जनिता । यः । विऽधाता । धामानि । वेद । भुवनानि । विश्वा । यः । देवानाम् । नामऽधाः । एकः । एव । तम् । सम्ऽप्रश्नम् । भुवना । यन्ति । अन्या ॥ १०.८२.३

    ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 3
    अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 3

    पदार्थः -
    (यः-नः-जनिता पिता) योऽस्माकमुत्पादयिता पालकः परमात्मा (यः-विधाता) यः कर्मफलविधाता (विश्वा धामानि भुवनानि वेद) सर्वाणि जन्मानि स्थानानि लोकलोकान्तराणि जानाति (यः-देवानां नामधाः) योऽग्न्यादिदिव्यगुणवतां पदार्थानां नामानि दधाति (तं सम्प्रश्नम्-अन्या भुवना यन्ति) तं सम्यक् प्रष्टव्यं जिज्ञास्यं परमात्मदेवमन्यानि सर्वाणि भूतानि लोक-लोकान्तराणि च प्राप्नुवन्त्याश्रयन्ति ॥३॥

    इस भाष्य को एडिट करें
    Top