ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 4
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑य॒: पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥
स्वर सहित पद पाठते । आ । अ॒य॒ज॒न्त॒ । द्रवि॑णम् । सम् । अ॒स्मै॒ । ऋष॑यः । पूर्वे॑ । ज॒रि॒तारः॑ । न । भू॒ना । अ॒सूर्ते॑ । सूर्ते॑ । रज॑सि । नि॒ऽस॒त्ते । ये । भू॒तानि॑ । स॒म्ऽअकृ॑ण्वन् । इ॒मानि॑ ॥
स्वर रहित मन्त्र
त आयजन्त द्रविणं समस्मा ऋषय: पूर्वे जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥
स्वर रहित पद पाठते । आ । अयजन्त । द्रविणम् । सम् । अस्मै । ऋषयः । पूर्वे । जरितारः । न । भूना । असूर्ते । सूर्ते । रजसि । निऽसत्ते । ये । भूतानि । सम्ऽअकृण्वन् । इमानि ॥ १०.८२.४
ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 4
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 4
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 4
पदार्थः -
(ते पूर्वे-ऋषयः) ते खल्वारम्भसृष्टौ जाताः साङ्कल्पिकाः-वेदप्रकाशका ऋषयः (जरितारः-न) स्तोतारः खलु (अस्मै द्रविणं भूना-आयजन्त) अस्मै परमात्मने स्वात्मभावरूपं बलं बहुभावेन समन्तात् समर्थयन्ति (सूर्ते) सरणशीले जङ्गमे (असूर्ते) असरणशीले स्थावरे (निषत्ते) निस्तब्धे ज्ञानशून्ये (रजसि) लोके-गणे (इमानि भूतानि) एतानि भूतानि योग्यानि (ये समकृण्वन्) ये सुखमयं सम्पादयन् ते परमर्षयः आसन् ॥४॥