ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 5
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ । कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ॥
स्वर सहित पद पाठप॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । प॒रः । दे॒वेभिः॑ । असु॑रैः । यत् । अस्ति॑ । कम् । स्वि॒त् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअप॑श्यन्त । विश्वे॑ ॥
स्वर रहित मन्त्र
परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति । कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥
स्वर रहित पद पाठपरः । दिवा । परः । एना । पृथिव्या । परः । देवेभिः । असुरैः । यत् । अस्ति । कम् । स्वित् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्ऽअपश्यन्त । विश्वे ॥ १०.८२.५
ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 5
पदार्थः -
(दिवा परः) यो जगद्रचयिता परमात्मा द्युलोकात् परः परवर्तमानो महान् “दिवा पञ्चमीस्थाने तृतीया व्यत्ययेन” (एना पृथिव्या परः) एतस्याः पृथिव्याः परे वर्तमानो महान् मोक्षधाम्नः पर उपरि स्वामी प्रथितायाः सृष्टेः पर उपरि स्वामी (देवेभिः-असुरैः-परः) विद्वद्भ्यः-असुरेभ्यश्च परः उपरि स्वामी (यत्-अस्ति) यतोऽस्ति तस्मात् (कं स्वित् प्रथमं-गर्भं-आपः-दध्रे) तं सुखरूपं ग्रहीतारं खल्वापो व्याप्ताः परमाणवो स्वोपरि स्वामिनं धारयन्ति (यत्र विश्वेदेवाः समपश्यन्त) यस्मिन् स्थिताः सर्वे विद्वांसो ध्यायिनो जनाः स्वात्मानमनुभवन्ति ॥५॥