Loading...
ऋग्वेद मण्डल - 10 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 86/ मन्त्र 22
    ऋषिः - वृषाकपिरैन्द्र इन्द्राणीन्द्रश्च देवता - वरुणः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन । क्व१॒॑ स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    यत् । उद॑ञ्चः । वृ॒षा॒क॒पे॒ । गृ॒हम् । इ॒न्द्र॒ । अज॑गन्तन । क्व॑ । स्यः । पु॒ल्व॒घः । मृ॒गः । कम् । अ॒ग॒न् । ज॒न॒ऽयोप॑नः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥


    स्वर रहित मन्त्र

    यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन । क्व१ स्य पुल्वघो मृगः कमगञ्जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    यत् । उदञ्चः । वृषाकपे । गृहम् । इन्द्र । अजगन्तन । क्व । स्यः । पुल्वघः । मृगः । कम् । अगन् । जनऽयोपनः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥ १०.८६.२२

    ऋग्वेद - मण्डल » 10; सूक्त » 86; मन्त्र » 22
    अष्टक » 8; अध्याय » 4; वर्ग » 4; मन्त्र » 7

    पदार्थः -
    (वृषाकपे) हे वृषाकपे सूर्य ! (यत्-उदञ्चः-गृहम्-अजगन्तन) यदा त्वमुदङ्मुखः सन् उत्तरगोलार्धं भूत्वा स्वगृहं गतो भवसि (इन्द्र स्य पुल्वघः-जनयोपनः-मृगः क्व कम्-अगन्) हे इन्द्र ! उत्तरध्रुव ! सम्बोध्य पृच्छन्ति ज्ञातुमिच्छन्ति ज्योतिर्विदः-यत् स बहुभक्षी “पुल्वघो बह्वादी” [निरु० १३।३] जनमोहकः सूर्यः कुत्र कं प्रदेशं गतः ॥२२॥

    इस भाष्य को एडिट करें
    Top