Loading...
ऋग्वेद मण्डल - 10 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 86/ मन्त्र 23
    ऋषिः - वृषाकपिरैन्द्र इन्द्राणीन्द्रश्च देवता - वरुणः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् । भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    पशुः॑ । ह॒ । नाम॑ । मा॒न॒वी । सा॒कम् । स॒सू॒व॒ । विं॒श॒तिम् । भ॒द्रम् । भ॒ल॒ । त्यस्यै॑ । अ॒भू॒त् । यस्याः॑ । उ॒दर॑म् । आम॑यत् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥


    स्वर रहित मन्त्र

    पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् । भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    पशुः । ह । नाम । मानवी । साकम् । ससूव । विंशतिम् । भद्रम् । भल । त्यस्यै । अभूत् । यस्याः । उदरम् । आमयत् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥ १०.८६.२३

    ऋग्वेद - मण्डल » 10; सूक्त » 86; मन्त्र » 23
    अष्टक » 8; अध्याय » 4; वर्ग » 4; मन्त्र » 8

    पदार्थः -
    सूर्योक्तिः−(मानवी ह पर्शुः-नाम) संवत्सरस्य “प्रजापतिर्वै मनुः” [श० ६।६।१।१९] “संवत्सरो वै प्रजापतिः” [श० २।३।३।११५] पर्शुरवान्तरदिक् “अवान्तरदिशः पर्शवः” [बृहदा० १।१।१] सम्पातदिक्, तत्र गत आसम् (साकं-विंशतिं ससूव) पूर्वोक्तान् पञ्चदश उक्ष्णो ग्रहान् तैः साकं विंशतिं ग्रहान् उत्पादयति “सन्ततिर्वा एते ग्रहाः” [तै० ब्रा० १।२।३।१] (भल त्यस्यै भद्रम्-अभूत्) हे कल्याणकारिन् ! “भल आभण्डने” [चुरादि०] तस्यै मम मात्रे कल्याणं भवेत् (यस्याः-उदरम्-आमयत्) यस्या उदरम्-आश्रयं ददाति बहिश्च प्रेरयति तच्छरणे गतो भवामि ॥२३॥

    इस भाष्य को एडिट करें
    Top