ऋग्वेद - मण्डल 10/ सूक्त 87/ मन्त्र 1
र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भि॒: समि॑द्ध॒: स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥
स्वर सहित पद पाठर॒क्षः॒ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ । शिशा॑नः । अ॒ग्निः । क्रतु॑ऽभिः । सम्ऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥
स्वर रहित मन्त्र
रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म । शिशानो अग्निः क्रतुभि: समिद्ध: स नो दिवा स रिषः पातु नक्तम् ॥
स्वर रहित पद पाठरक्षःऽहनम् । वाजिनम् । आ । जिघर्मि । मित्रम् । प्रथिष्ठम् । उप । यामि । शर्म । शिशानः । अग्निः । क्रतुऽभिः । सम्ऽइद्धः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥ १०.८७.१
ऋग्वेद - मण्डल » 10; सूक्त » 87; मन्त्र » 1
अष्टक » 8; अध्याय » 4; वर्ग » 5; मन्त्र » 1
अष्टक » 8; अध्याय » 4; वर्ग » 5; मन्त्र » 1
विषयः - अत्र सूक्ते राष्ट्रध्वंसकानां शत्रूणां प्रजापीडकानां दुष्टानां च नाशनं विविधशस्त्रास्त्रैः कार्यमिति प्राधान्येन वर्ण्यते।
पदार्थः -
(रक्षोहणं वाजिनं मित्रं प्रथिष्ठं जिघर्मि) रक्षितव्यमस्मादिति रक्षो राक्षसस्तं शत्रुं पापकारिणं हन्ति यस्तं बलवन्तम् “वाजो बलम्” [निघ० २।९] अस्त्रं प्रेरकम् “मिञ् प्रक्षेपणे” [स्वादि०] ततः क्तः [उणा० ४।१६४] अतिशक्तिप्रसारकमग्निं तेजस्विनमग्निमन्त-माग्नेयास्त्रमग्रणीं सेनानायकम् ‘मतुब्लोपश्छान्दसः’ अहं राजा दीपयामि प्रबोधयामि चेतयामि वा (शर्म-उपयामि) एवं कृत्वा सुखं प्राप्नोमि (सः शिशानः-अग्निः क्रतुभिः समिद्धः) सतीक्ष्णबलोऽग्रणीः सेनानायकोऽनेकैराग्नेयास्त्रप्रयोगैः संसिद्धः “समिद्धे प्रसिद्धे” [ऋ० ४।२५।१ दयानन्दः] (नः) अस्मान् (सः-रिषः-दिवा-नक्तं पातु) स हिंसकात्-शत्रोः दिने रात्रौ रक्षतु ॥१॥