अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 6
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः। यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । र॒ध्रस्य॑ । चो॒दि॒ता: । य: । कृ॒शस्य॑ । य: । ब्र॒ह्मण॑: । नाध॑मानस्य । की॒रे: ॥ यु॒क्तऽग्रा॑व्ण: । य: । अ॒वि॒ता । सु॒शि॒प्र: । सु॒तऽसो॑मस्य । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.६॥
स्वर रहित मन्त्र
यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः। युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । रध्रस्य । चोदिता: । य: । कृशस्य । य: । ब्रह्मण: । नाधमानस्य । कीरे: ॥ युक्तऽग्राव्ण: । य: । अविता । सुशिप्र: । सुतऽसोमस्य । स: । जनास: । इन्द्र: ॥३३.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 6
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(यः) जो [परमेश्वर] (रध्रस्य) धनी का, और (यः) जो (कृशस्य) दुर्बल का, (यः) जो (नाधमानस्य) ऐश्वर्यवाले, (कीरेः) गुणों के व्याख्याता (ब्रह्मणः) ब्रह्मा [ब्रह्मज्ञानी] का (चोदिता) आगे बढ़ानेवाला है। (यः) जो (युक्तग्राव्णः) योगाभ्यासी पण्डित का और (सुतसोमस्य) मोक्ष पा लेनेवाले का (सुशिप्रः) बड़ा सेवनीय (अविता) रक्षक है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥६॥
भावार्थ - मनुष्य उस परमात्मा की उपासना से सदा उत्तम कर्म करें, जो सबको श्रेष्ठ कर्म द्वारा उन्नति के लिये आज्ञा देता है ॥६॥
टिप्पणी -
६−(यः) परमेश्वरः (रध्रस्य) स्फायितञ्चिवञ्चि०। उ०२।१३। रध हिंसासंराद्ध्योः-रक्। समृद्धस्य। धनिकस्य (चोदिता) प्रेरकः (यः) (कृशस्य) दुर्बलस्य (यः) (ब्रह्मणः) वेदज्ञानिनः पुरुषस्य (नाधमानस्य) नाधृ याच्ञोपतापैश्वर्याशीःषु-शानच्। ऐश्वर्ययुक्तस्य (कीरेः) अ०२०।१७।१२। गुणव्याख्यातुः (युक्तग्राव्णः) युज समाधौ-क्त। अन्येभ्येऽपि दृश्यन्ते। पा०३।२।७। गॄ शब्दे विज्ञापे स्तुतौ च-क्वनिप्। अभ्यस्तयोगस्य पण्डितस्य (यः) (अविता) रक्षकः (सुशिप्रः) स्फायितञ्चिवञ्चि०। उ०२।१३। शेवृ सेवायाम्-रक्, पृषोदरादित्वाद् रूपसिद्धिः। सुसेवनीयः (सुतसोमस्य) षु गतौ प्रसवैश्वर्ययोश्च-क्त, सोमो मोक्षः। प्राप्तमोक्षस्य। अन्यत् गतम् ॥