अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 6
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - विराट् सूक्त
बृ॒हच्च॑ रथन्त॒रं च॒ द्वौ स्तना॒वास्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॒ द्वौ ॥
स्वर सहित पद पाठबृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । द्वौ । स्तनौ॑ । आस्ता॑म् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । द्वौ ॥११.६॥
स्वर रहित मन्त्र
बृहच्च रथन्तरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥
स्वर रहित पद पाठबृहत् । च । रथम्ऽतरम् । च । द्वौ । स्तनौ । आस्ताम् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च । द्वौ ॥११.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 2;
मन्त्र » 6
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(बृहत्) बृहत् बड़ा [आकाश] (च च) और (रथन्तरम्) रथन्तर [रमणीय पदार्थों से पार लगानेवाला, जगत्] (द्वौ) दो, (च) और (यज्ञायज्ञियम्) सब यज्ञों का हितकारी [वेदज्ञान] (च) और (वामदेव्यम्) वामदेव [मनोहर परमात्मा] से जताया गया [भूतपञ्चक] (द्वौ) दो (स्तनौ) स्तन [थन समान] (आस्ताम्) हुए ॥६॥
भावार्थ - जैसे गौ के चार थन होते हैं, वैसे ही ईश्वरशक्ति से आकाश, जगत्, वेद और पञ्चभूत प्रकट हुए हैं ॥६॥
टिप्पणी -
६−(बृहत्) प्रवृद्धमाकाशम् (च च) समुच्चये (रथन्तरम्) हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२। रमु क्रीडायाम्−क्थन्+संज्ञायां भृतॄवृजि०। पा० ३।२।४६। तॄ प्लवनतरणयोः−स्रच्, मुम् च। रथै रमणीयपदार्थैस्तरति येन तद् जगत् (द्वौ) (स्तनौ) स्तन शब्दे-घञ्। कुचरूपौ (आस्ताम्) (यज्ञायज्ञियम्) वीप्सायां द्वित्वम्। अन्येषामपि दृश्यते। पा० ३।३।१३७। इति दीर्घः। यज्ञर्त्विग्भ्यां घखञौ। पा० ५।१।७१। यज्ञायज्ञ-घ प्रत्ययः। सर्वेभ्यो यज्ञेभ्यो हितं वेदज्ञानम् (वामदेव्यम्) अ० ४।३४।१। वामदेवेन प्रशस्यपरमात्मना विज्ञापितं भूतपञ्चकम् (च) (द्वौ) ॥