अथर्ववेद - काण्ड 2/ सूक्त 13/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
आ॑यु॒र्दा अ॑ग्ने ज॒रसं॑ वृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने। घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रान॒भि र॑क्षतादि॒मम् ॥
स्वर सहित पद पाठआ॒यु॒:ऽदा: । अ॒ग्ने॒ । ज॒रस॑म् । वृ॒णा॒न: । घृ॒तऽप्र॑तीक: । घृ॒तऽपृ॑ष्ठ: । अ॒ग्ने॒ । घृ॒तम् । पी॒त्वा । मधु॑ । चारु॑ । गव्य॑म् । पि॒ताऽइ॑व । पु॒त्रान् । अ॒भि । र॒क्ष॒ता॒त् । इ॒मम् ॥१३.१॥
स्वर रहित मन्त्र
आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने। घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रानभि रक्षतादिमम् ॥
स्वर रहित पद पाठआयु:ऽदा: । अग्ने । जरसम् । वृणान: । घृतऽप्रतीक: । घृतऽपृष्ठ: । अग्ने । घृतम् । पीत्वा । मधु । चारु । गव्यम् । पिताऽइव । पुत्रान् । अभि । रक्षतात् । इमम् ॥१३.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 13; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–आयुर्दाः। आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति आयुः+दा दाने–विच्। आयुः–अ० १।३०।३। जीवनदाता। अग्ने। हे तेजस्विन् परमेश्वर ! जरसम्। अ० १।३०।३। जरस्–अर्शआद्यच्। स्तुत्यम्। प्रशंसनीयं कर्म। वृणानः। वृङ् संभक्तौ–लटः शानच्। श्नाभ्यस्तयोरातः। पा० ६।४।१२२। इत्याकारलोपः। संभजमानः। स्वीकुर्वाणः। घृतप्रतीकः। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति घृ भासि सेके च–क्त। अलीकादयश्च। उ० ४।२५। इति प्रति+इण् गतौ–कीकन्। घृता दीप्ताः प्रतीका अङ्गानि यस्य सः। प्रकाशस्वरूपः। घृतपृष्ठः। तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। इति पृषु सेके–थक् प्रत्ययान्तो निपातः। घृतस्य पृष्ठं सेचनं यस्मात् सः। प्रकाशेन सेचकः। घृतम्। आज्यम्। पीत्वा। पानेन स्वीकृत्य। मधु। मन–उ। मधुरम्। चारु। अ० २।५।१। मनोहरम्। गव्यम्। गोपयसोर्यत्। पा० ४।३।१६०। इति गो–यत्। वान्तो यि प्रत्यये। पा० ६।१।७९। इति अव्। गोसम्बन्धि। पिता। पाता पालकः, जनकः। इव। यथा। पुत्रान्। अ० १।११।५। पूङ् शोधे–क्त्र। शुभकर्मणा मातापित्रादिशोधकान्। तनयान्। अपत्यानि। अभि। सर्वतः। रक्षतात्। हेस्तातङ् आदेशः। पाहि। इमम्। एनमुपासकम्। ब्रह्मचारिणम् ॥
इस भाष्य को एडिट करें