Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 1
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत्। तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ॥

    स्वर सहित पद पाठ

    इ॒माम् । धिय॒म् । स॒प्तऽशी॑र्ष्णीम् । पि॒ता । न॒: । ऋ॒तऽप्र॑जाताम् । बृह॒तीम् । अ॒वि॒न्द॒त् ॥ तु॒रीय॑म् । स्वि॒त् । ज॒न॒य॒त् । वि॒श्वऽज॑न्य: । अ॒यास्य॑ । उ॒क्थम् । इन्द्रा॑य । शंस॑न् ॥९१.१॥


    स्वर रहित मन्त्र

    इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्। तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥

    स्वर रहित पद पाठ

    इमाम् । धियम् । सप्तऽशीर्ष्णीम् । पिता । न: । ऋतऽप्रजाताम् । बृहतीम् । अविन्दत् ॥ तुरीयम् । स्वित् । जनयत् । विश्वऽजन्य: । अयास्य । उक्थम् । इन्द्राय । शंसन् ॥९१.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 1

    टिप्पणीः - यह सूक्त ऋग्वेद में है-१०।६७।१-१२ ॥ १−(इमाम्) प्रत्यक्षाम् (श्रियम्) प्रज्ञाम् (सप्तशीर्ष्णीम्) शीर्षंश्छन्दसि। पा० ६।१।६०। शीर्षन्निति शब्दान्तरं शिरःशब्देन समानार्थम्, ङीप्। कर्णौ नासिके चक्षणी मुखम्-अ० १०।२।६। इति सप्तसु छिद्रेषु शिर आश्रयो यस्यास्ताम् (पिता) जनकः (नः) अस्माकम् (ऋतप्रजाताम्) सत्यात् परमेश्वरात् प्रादुर्भूताम् (बृहतीम्) महतीम् (अविन्दत्) लब्धवान् (तुरीयम्) तुर वेगे-क। घच्छौ च। पा० ४।४।११७। तुर-छप्रत्ययः, तत्र भव इत्यर्थे। बलयुक्तम् (स्वित्) अवधारणे (जनयत्) अजनयत्। प्रकटीकृतवान् (विश्वजन्यः) सर्वजनहितः पुरुषः (अयास्यः) इण् गतौ-अच्+आस उपवेशने-क्यप्, टाप्। अयेषु शुभकर्मसु आस्या स्थितिर्यस्य सः (उक्थम्) वचनम् (इन्द्राय) परमैश्वर्यवते जगदीश्वराय (शंसन्) स्तुतिं कुर्वन् ॥

    इस भाष्य को एडिट करें
    Top