Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 7
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः। ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्यानट् ॥

    स्वर सहित पद पाठ

    स: । ई॒म् । स॒त्येभि॑: । सखि॑ऽभि: । शु॒चत्ऽभि॒: । गोऽधा॑यसम् । वि । ध॒न॒ऽसै: । अ॒द॒र्द॒रित्य॑दर्द: ॥ ब्रह्म॑ण: । पति॑: । वृष॑ऽभि: । व॒राहै॑: । घ॒र्मऽस्वे॑देभि: । द्रवि॑णम् । वि । आ॒न॒ट् ॥९१.७॥


    स्वर रहित मन्त्र

    स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः। ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥

    स्वर रहित पद पाठ

    स: । ईम् । सत्येभि: । सखिऽभि: । शुचत्ऽभि: । गोऽधायसम् । वि । धनऽसै: । अदर्दरित्यदर्द: ॥ ब्रह्मण: । पति: । वृषऽभि: । वराहै: । घर्मऽस्वेदेभि: । द्रविणम् । वि । आनट् ॥९१.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 7

    टिप्पणीः - ७−(सः) (ईम्) प्राप्तम् (सत्येभिः) सत्यशीलैः (सखिभिः) मित्रभूतैः (शुचद्भिः) दीप्यमानैः (गोधायसम्) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वञ्च। उ० ४।२२७। गो+दधातेः-असि, णित्। गोर्वज्रस्य धारकं शत्रुम् (धनसैः) षणु दाने-उ। धनदातृभिः (अदर्दः) दॄ विदारणे-यङ्लुगन्ताल्लङि रूपम्। भृशं विदारितवान् (ब्रह्मणः) प्रवृद्धस्य ब्रह्माण्डस्य (पतिः) स्वामी (वृषभिः) बलवद्भिः (वराहैः) अ० ८।७।२३। अन्येष्वपि दृश्यते। पा० ३।२।१०१। वर+आङ्+हृञ् हरणे-डप्रत्ययः। वरः श्रेष्ठ आहारो भोजनादिकं योग्यस्तैः। वराहारदातृभिः (घर्मस्वेदेभिः) घर्मस्तापः स्वेदो वाष्पश्च येभ्यस्तादृशगुणैः (द्रविणम्) धनम् (वि) विविधम् (आनट्) अ० १८।३।९। आनशे। प्राप्तवान् ॥

    इस भाष्य को एडिट करें
    Top