Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 12
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑। अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । म॒ह्ना । म॒ह॒त: । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य॑ ॥ अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वै: । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । न॒: ॥९१.१२॥


    स्वर रहित मन्त्र

    इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य। अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः ॥

    स्वर रहित पद पाठ

    इन्द्र: । मह्ना । महत: । अर्णवस्य । वि । मूर्धानम् । अभिनत् । अर्बुदस्य ॥ अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवै: । द्यावापृथिवी इति । प्र । अवतम् । न: ॥९१.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 12

    टिप्पणीः - १२−(इन्द्रः) परमात्मा (मह्ना) महिम्ना। महत्त्वेन (महतः) विशालस्य (अर्णवस्य) गतियुक्तस्य उदकयुक्तस्य (वि) विशेषेण (मूर्धानम्) शिरः (अभिनत्) अच्छिनत् (अर्बुदस्य) अर्व गतौ हिंसायां च-उदच् प्रत्ययः। हिंसकस्य। मेघस्येव अन्धकारविस्तारकस्य शत्रोः (अहन्) व्याप्तवान् (अहिम्, अरिणात्, सप्त, सिन्धून्) एते व्याख्याताः-अ० २०।३४।३। (देवैः) उत्तमगुणैः (द्यावापृथिवी) हे आकाशभूमी (प्र) प्रकर्षेण (अवतम्) रक्षतम् (नः) अस्मान् ॥

    इस भाष्य को एडिट करें
    Top