Loading...
अथर्ववेद > काण्ड 4 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 5/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - वृषभः, स्वापनम् छन्दः - पुरस्ताज्ज्योतिस्त्रिष्टुप् सूक्तम् - स्वापन सूक्त

    स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि ष्वा॑पया॒ जन॑म्। ओ॑त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ॥

    स्वर सहित पद पाठ

    स्वप्न॑ । स्व॒प्न॒ऽअ॒भि॒कर॑णेन । सर्व॑म् । नि । स्वा॒प॒य॒ । जन॑म् । आ॒ऽउ॒त्सू॒र्यम् । अ॒न्यान् । स्वा॒पय॑ । आ॒ऽव्यु॒षम् । जा॒गृ॒ता॒त् । अ॒हम् । इन्द्र॑:ऽइव । अरि॑ष्ट: । अक्षि॑त: ॥५.७॥


    स्वर रहित मन्त्र

    स्वप्न स्वप्नाभिकरणेन सर्वं नि ष्वापया जनम्। ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥

    स्वर रहित पद पाठ

    स्वप्न । स्वप्नऽअभिकरणेन । सर्वम् । नि । स्वापय । जनम् । आऽउत्सूर्यम् । अन्यान् । स्वापय । आऽव्युषम् । जागृतात् । अहम् । इन्द्र:ऽइव । अरिष्ट: । अक्षित: ॥५.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 5; मन्त्र » 7

    टिप्पणीः - ७−(स्वप्न) ञिष्वप् शये-नन्। हे निद्रे (स्वप्नाभिकरणेन) निद्राजनकेन साधनेन कर्मणा द्रव्येण वा (सर्वम्) सकलम् (नि स्वापय) सर्वथा निद्रापय (जनम्) मनुष्यसमूहम् (ओत्सूर्यम्) उद्यन् सूर्य्यो यस्मिन् काले स उत्सूर्यः कालः। सूर्योदयपर्यन्तम् (अन्यान्) इतरान् मनुष्यान्। (आव्युषम्) उष वधे दाहे च-क, वा टाप्। उषः, उषा वा रात्रिशेषः। उषः कालावधि। रात्र्यवसानपर्यन्तम् (जागृतात्) जागृ निद्राक्षये लोट्, उत्तमपुरुषस्य छन्दसि प्रथमपुरुषः। अहं जागराणि। जागृतो भवानि (अहम्) गृहपतिः (इन्द्रः इव) प्रतापी पुरुषो यथा (अरिष्टः) अहिंसितः (अक्षितः) क्षयरहितः ॥

    इस भाष्य को एडिट करें
    Top