अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 1
सूक्त - गरुत्मान्
देवता - तक्षकः, ब्राह्मणः
छन्दः - अनुष्टुप्
सूक्तम् - विषघ्न सूक्त
ब्रा॑ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः। स सोमं॑ प्रथ॒मः प॑पौ॒ स च॑कारार॒सं वि॒षम् ॥
स्वर सहित पद पाठब्रा॒ह्म॒ण: । ज॒ज्ञे॒ । प्र॒थ॒म: । दश॑ऽशीर्ष: । दश॑ऽआस्य: । स: । सोम॑म् । प्र॒थ॒म: । प॒पौ॒ । स: । च॒का॒र॒ । अ॒र॒सम् । वि॒षम् ॥६.१॥
स्वर रहित मन्त्र
ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः। स सोमं प्रथमः पपौ स चकारारसं विषम् ॥
स्वर रहित पद पाठब्राह्मण: । जज्ञे । प्रथम: । दशऽशीर्ष: । दशऽआस्य: । स: । सोमम् । प्रथम: । पपौ । स: । चकार । अरसम् । विषम् ॥६.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(ब्राह्मणः) तदधीते तद्वेद। पा० ४।२।५९। इति ब्रह्मन्-अण्। ब्राह्मोऽजातौ। पा० ६।४।१७१। इति न टिलोपः। वेदपाठी। वेदवेत्ता पुरुषः (जज्ञे) जनी-लिट्। प्रादुर्बभूव (प्रथमः) सर्ववर्णेषु प्रधानः। अग्रिमः (दशशीर्षः) श्रयतेः स्वाङ्गे शिरः किच्च। उ० ४।१९४। श्रिञ् सेवायाम्-असुन्, शिरादेशः। शिरःशब्दस्य शीर्षं वा। उत्तमाङ्गं शिरः शीर्षं मूर्धा ना-मस्तकोऽस्त्रियाम्, इत्यमरः, १६।९५। दानशीलक्षमावीर्य्यध्यानप्रज्ञा बलानि च। उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि च। इति शब्दकल्पद्रुमवचनाद् दशसु बलेषु शीर्षं शिरोबलं यस्य स तथाभूतः पुरुषः (दशास्यः) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति असु क्षेपणे-ण्यत्। अस्यतेऽन्नमस्मिन्निति आस्यं मुखम्। यद्वा। आस उपवेशने-ण्यत्, टाप् आस्या स्थितिः, आसनम्। दशसु दिक्षु आस्यं मुखवत् पोषणं यस्य। यद्वा। दशसु दिक्षु आस्या स्थितिर्यस्य स तथाभूतः (सः) ब्राह्मणः (सोमम्) अ० १।६।२। सोमलतारसम्। ओषधिः सोमः सुनोतेर्यदेनमभिषुण्वन्ति। बहुलमस्य नैघण्टुकं वृत्तमाश्चर्य्यमिव प्राधान्येन तस्य पावमानीषु-निरु० ११।२। (प्रथमः) प्रधानः। (पपौ) पीतवान् (चकार) कृतवान् (अरसम्) रसरहितं निर्वीर्यम् (विषम्) विष विप्रयोगे, यद्वा, विष्लृ व्याप्तौ-क। विषमित्युदकनाम विष्णातेर्विपूर्वस्य स्नातेः शुद्ध्यर्थस्य विपूर्वस्य वा सचतेः निरु० २२।२६। आरोग्यस्य शरीरस्य वानशिकं द्रव्यम् ॥
इस भाष्य को एडिट करें