अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 5
श॒ल्याद्वि॒षं निर॑वोचं॒ प्राञ्ज॑नादु॒त प॑र्ण॒धेः। अ॑पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचम॒हं वि॒षम् ॥
स्वर सहित पद पाठश॒ल्यात् । वि॒षम् । नि: । अ॒वो॒च॒म् । प्र॒ऽअञ्ज॑नात् । उ॒त । प॒र्ण॒ऽधे: । अ॒पा॒ष्ठात् । शृङ्गा॑त् । कुल्म॑लात् । नि: । अ॒वो॒च॒म् । अ॒हम् । वि॒षम् ॥६.५॥
स्वर रहित मन्त्र
शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः। अपाष्ठाच्छृङ्गात्कुल्मलान्निरवोचमहं विषम् ॥
स्वर रहित पद पाठशल्यात् । विषम् । नि: । अवोचम् । प्रऽअञ्जनात् । उत । पर्णऽधे: । अपाष्ठात् । शृङ्गात् । कुल्मलात् । नि: । अवोचम् । अहम् । विषम् ॥६.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(शल्यात्। विषम्) निः। (अवोचम्) मतम्-म० ४। (प्राञ्जनात्) अञ्जु व्यक्तिगतिम्रक्षणेषु-ल्युट्। प्रलेपात् (उत) अपि (पर्णधेः) पत्रयुक्तशरकाण्डात् (अपाष्ठात्) अप+आङ्+ष्ठा-क। अपस्थिताद् बाणफलात् (शृङ्गात्) अ० २।३२।६। शॄ हिंसायाम्-गन्, नुट् च। शृणातीति शृङ्गं तीक्ष्णम्। तीक्ष्णात् (कुल्मलात्) अ० २।३०।३। बाणदण्डच्छिद्रात्। गतमन्यत् ॥
इस भाष्य को एडिट करें