अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 20
इन्द्रः॒ प्राङ्तिष्ठ॑न्दक्षि॒णा तिष्ठ॑न्य॒मः ॥
स्वर सहित पद पाठइन्द्र॑: । प्राङ् । तिष्ठ॑न् । द॒क्षि॒णा । तिष्ठ॑न् । य॒म: ॥१२.२०॥
स्वर रहित मन्त्र
इन्द्रः प्राङ्तिष्ठन्दक्षिणा तिष्ठन्यमः ॥
स्वर रहित पद पाठइन्द्र: । प्राङ् । तिष्ठन् । दक्षिणा । तिष्ठन् । यम: ॥१२.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०, २१−(इन्द्रः) परमैश्वर्यवान् परमेश्वरः (प्राङ्) प्र+अञ्चु गतिपूजनयोः−क्विन्। पूर्वस्यां स्वाभिमुखीभूतायां वा दिशि (तिष्ठन्) प्रादुर्भवन् (दक्षिणा) दक्षिणस्यां दक्षिणहस्तस्थितायां वा दिशि (यमः) नियामकः (प्रत्यङ्) पश्चिमायां पश्चाद् भागे स्थितायां वा दिशि (धाता) सर्वधारकः (उदङ्) उत्तरस्यां वामहस्तस्थितायां वा दिशि (सविता) सर्वप्रेरकः ॥
इस भाष्य को एडिट करें