अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 26
उपै॑नं वि॒श्वरू॑पाः॒ सर्व॑रूपाः प॒शव॑स्तिष्ठन्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठउप॑ । ए॒न॒म् । वि॒श्वऽरू॑पा: । सर्व॑ऽरूपा: । प॒शव॑: । ति॒ष्ठ॒न्ति॒ । य: । ए॒वम् । वेद॑ ॥१२.२६॥
स्वर रहित मन्त्र
उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥
स्वर रहित पद पाठउप । एनम् । विश्वऽरूपा: । सर्वऽरूपा: । पशव: । तिष्ठन्ति । य: । एवम् । वेद ॥१२.२६॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(उप तिष्ठन्ति) पूजयन्ति (एनम्) ब्रह्मवादिनम् (विश्वरूपाः) सर्ववर्णाः (सर्वरूपाः) सर्वाकाराः (पशवः) पशवो व्यक्तवाचश्चाव्यक्तवाचश्च-निरु० ११।२९। प्राणिनः (यः) (एवम्) (वेद) जानाति ॥
इस भाष्य को एडिट करें