Loading...
ऋग्वेद मण्डल - 10 के सूक्त 130 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 3
    ऋषिः - यज्ञः प्राजापत्यः देवता - भाववृत्तम् छन्दः - त्रिष्टुप् स्वरः - धैवतः

    कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छन्द॒: किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥

    स्वर सहित पद पाठ

    का । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् । छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥


    स्वर रहित मन्त्र

    कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् । छन्द: किमासीत्प्रउगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥

    स्वर रहित पद पाठ

    का । आसीत् । प्रऽमा । प्रतिऽमा । किम् । निऽदानम् । आज्यम् । किम् । आसीत् । परिऽधिः । कः । आसीत् । छन्दः । किम् । आसीत् । प्रउगम् । किम् । उक्थम् । यत् । देवाः । देवम् । अयजन्त । विश्वे ॥ १०.१३०.३

    ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 3
    अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 3

    पदार्थः -
    (का प्रमा प्रतिमा-आसीत्) तस्मिन्निर्माणयज्ञे का प्रमितिः प्रमाणरीतिस्तथा प्रतिमा प्रतिकृतिः खल्वासीत्-भवति वा (किं निदानम्) किं हेतुभूतं वस्तुलक्ष्यं वा भवति (किम्-आज्यम्-आसीत्) किं घृतं दीप्तिसाधनं भवति (कः परिधिः-आसीत्) कः परितो-धारक आवर्तो वा भवति (छन्दः किम् आसीत्) छन्दः-किं भवति (प्र उगम्-उक्थं किम्) प्रउगम्-उक्थं किं भवति (यत्-विश्वेदेवाः-देवम्-अयजन्त) यदा सर्वे देवा विद्वांस इष्टदेवं यजनीयं यजन्ति ॥३॥

    इस भाष्य को एडिट करें
    Top