ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 4
ऋषिः - यज्ञः प्राजापत्यः
देवता - भाववृत्तम्
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥
स्वर सहित पद पाठअ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ । अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥
स्वर रहित मन्त्र
अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव । अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् ॥
स्वर रहित पद पाठअग्नेः । गायत्री । अभवत् । सऽयुग्वा । उष्णिहया । सविता । सम् । बभूव । अनुऽस्तुभा । सोमः । उक्थैः । महस्वान् । बृहस्पतेः । बृहती । वाचम् । आवत् ॥ १०.१३०.४
ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 4
पदार्थः -
देवताछन्दसां विषये प्रथम उच्यते (अग्नेः-सयुग्वा गायत्री-अभवत्) अग्नेः सहयुक्ता गायत्री भवति (सविता-उष्णिहया सं बभूव) सविता खलूष्णिक्छन्दसा सह सम्भवति (महस्वान् सोमः-अनुष्टुभा-उक्थैः) महागुणवान् सोमः-अनुष्टुभा तथोक्थैश्च सह (बृहस्पतेः-वाचं बृहती-आवत्) बृहस्पतेर्वाक् ‘प्रथमास्थाने द्वितीया व्यत्ययेन-छान्दसी’ प्राप्ता भवति, अग्निसवितृसोमबृहस्पतयो देवताः गायत्र्युष्णिग-नुष्टुब्बृहत्यश्छन्दांसि भवन्ति ॥४॥