Loading...
ऋग्वेद मण्डल - 10 के सूक्त 130 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 5
    ऋषिः - यज्ञः प्राजापत्यः देवता - भाववृत्तम् छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्न॑: । विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्या॑: ॥

    स्वर सहित पद पाठ

    वि॒राट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः । इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अह्नः॑ । विश्वा॑न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन॑ । चा॒कॢ॒प्रे॒ । ऋष॑यः । म॒नु॒ष्याः॑ ॥


    स्वर रहित मन्त्र

    विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्न: । विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्या: ॥

    स्वर रहित पद पाठ

    विराट् । मित्रावरुणयोः । अभिऽश्रीः । इन्द्रस्य । त्रिऽस्तुप् । इह । भागः । अह्नः । विश्वान् । देवान् । जगती । आ । विवेश । तेन । चाकॢप्रे । ऋषयः । मनुष्याः ॥ १०.१३०.५

    ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 5
    अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 5

    पदार्थः -
    (मित्रावरुणयोः-विराट्) मित्रावरुणयोः-विराट् छन्दः (इन्द्रस्य-अभिश्रीः) इन्द्रस्य-अभिश्रीश्छन्दः (अह्नः-इह भागः-त्रिष्टुप्) दिनस्यात्रभागस्त्रिष्टुप् छन्दः (विश्वान् देवान् जगती-आ विवेश) विश्वान् देवान् जगतीछन्दः खल्वाविशति (तेन च-ऋषयः-मनुष्याः-चाक्लृप्रे) तेन च ऋषयो मन्त्रद्रष्टारः साधारणमनुष्याश्च समर्था भवन्ति ॥५॥

    इस भाष्य को एडिट करें
    Top