अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 1
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अ॑तिमा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन्। भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन् ॥
स्वर सहित पद पाठअ॒ति॒ऽमा॒त्रम् । अ॒व॒र्ध॒न्त॒ । न । उत्ऽइ॑व । दिव॑म् । अ॒स्पृ॒श॒न् । भृगु॑म् । हिं॒सि॒त्वा । सृन्ऽज॑या: । वै॒त॒ऽह॒व्या: । परा॑ । अ॒भ॒व॒न् ॥१९.१॥
स्वर रहित मन्त्र
अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन्। भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥
स्वर रहित पद पाठअतिऽमात्रम् । अवर्धन्त । न । उत्ऽइव । दिवम् । अस्पृशन् । भृगुम् । हिंसित्वा । सृन्ऽजया: । वैतऽहव्या: । परा । अभवन् ॥१९.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 1
विषय - नास्तिक के तिरस्कार का उपदेश।
पदार्थ -
(सृञ्जायाः) पाये हुए शत्रुओं को जीतनेवाले, (वैतहव्याः) देवताओं का अन्न खानेवाले लोग (अतिमात्रम्) अन्यन्त (अवर्धन्त) बढ़े, (न=इति न) यही नहीं, (दिवम्) सूर्यलोक को (इव) जैसे (उत्) ऊँचे होकर (अस्पृशन्) उन्होंने छू लिया। [परन्तु] (भृगुम्) परिपक्व ज्ञानी को (हिंसित्वा) सताकर (पराभवन्) हार गये ॥१॥
भावार्थ - पाखण्डी दुरात्मा चाहे कितने ही बढ़ जावें, परन्तु धर्मात्मा उनको अन्त में हरा देते हैं ॥१॥
टिप्पणी -
१−(अतिमात्रम्) अत्यर्थम् (अवर्धन्त) वृद्धिं गताः (न) इति न (उत्) ऊर्ध्वम् (इव) यथा (दिवम्) सूर्यलोकम् (अस्पृशन्) स्पृष्टवन्तः (भृगुम्) अ० २।५।३। परिपक्वज्ञानम्। ऋषिम् (हिंसित्वा) दुःखयित्वा (सृञ्जयाः) सृ गतौ−क्विप्, तुक् च। संज्ञायां भृतॄवृजि०। पा० ३।२।४६। इति सृत्+जि जये−खच्, पूर्वपदस्य मुम्। अन्त्यतकारलोपश्च। प्राप्तानां शत्रूणां जेतारः−यथा दयानन्दभाष्ये, ऋ० ४।१५।४। (वैतहव्याः) अ० ५।१८।१०। भक्षितदेवयोग्यान्नाः (पराभवन्) पराजिता अभवन् ॥