अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 9
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
तं वृ॒क्षा अप॑ सेधन्ति च्छा॒यां नो॒ मोप॑गा॒ इति॑। यो ब्रा॑ह्म॒णस्य॒ सद्धन॑म॒भि ना॑रद॒ मन्य॑ते ॥
स्वर सहित पद पाठतम् । वृ॒क्षा: । अप॑ । से॒ध॒न्ति॒ । छा॒याम् । न॒: । मा । उप॑ । गा॒: । इति॑ ।य: । ब्रा॒ह्म॒णस्य॑ । सत् । धन॑म् । अ॒भि । ना॒र॒द॒ । मन्य॑ते ॥१९.९॥
स्वर रहित मन्त्र
तं वृक्षा अप सेधन्ति च्छायां नो मोपगा इति। यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥
स्वर रहित पद पाठतम् । वृक्षा: । अप । सेधन्ति । छायाम् । न: । मा । उप । गा: । इति ।य: । ब्राह्मणस्य । सत् । धनम् । अभि । नारद । मन्यते ॥१९.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 9
विषय - नास्तिक के तिरस्कार का उपदेश।
पदार्थ -
(तम्) उसको (वृक्षाः) वृक्ष (अप सेधन्ति) हटा देते हैं, “(नः) हमारी (छायाम्) छाया में (मा उप गाः) मत आ,” (इति) ऐसा कह कर। (यः) जो पुरुष, (नारद) हे नर [सर्वनायक, परमात्मा] के ज्ञान देनेवाले मनुष्य ! (ब्राह्मणस्य) ब्राह्मण के (सत्) श्रेष्ठ (धनम्) धनको [अभि=अभिभूय] दबा कर (मन्यते) अपना मानता है ॥९॥
भावार्थ - ब्राह्मण पर अत्याचार के कारण कुप्रबन्ध होने से वन उपवन वाटिका आदि नष्ट हो जाते हैं ॥९॥
टिप्पणी -
९−(तम्) अत्याचारिणम् (वृक्षाः) अ० ३।६।८। स्वीकरणीयास्तरवः (अप सेधन्ति) अपसेधयन्ति निवारयन्ति (छायाम्) (नः) अस्माकम् (मा उप गाः) इणो गा लुङि। पा० २।४।४५। इति इण् गतौ लुङि गादेशः। अडभावो माङि। न प्राप्नुहि (इति) वाक्यसमाप्तौ (यः) दुष्टः (ब्राह्मणस्य) ब्रह्मवेत्तुः (सत्) श्रेष्ठम् (धनम्) वित्तम् (अभि) अभिभूय (नारद) नरति नयतीति नरः। नृ नये−अच्। नरस्येदम्, अण्। नारं परमात्मज्ञानं ददातीति, दा−क। हे सर्वनायकपरमेश्वरस्य ज्ञानप्रद (मन्यते) स्वकीयं जानाति ॥