अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 13
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अश्रू॑णि॒ कृप॑माणस्य॒ यानि॑ जी॒तस्य॑ वावृ॒तुः। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥
स्वर सहित पद पाठअश्रू॑णि । कृप॑माणस्य । यानि॑ । जी॒तस्य॑ । व॒वृ॒तु: । तम् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । अ॒पाम् । भा॒गम् । अ॒धा॒र॒य॒न् ॥१९.१३॥
स्वर रहित मन्त्र
अश्रूणि कृपमाणस्य यानि जीतस्य वावृतुः। तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥
स्वर रहित पद पाठअश्रूणि । कृपमाणस्य । यानि । जीतस्य । ववृतु: । तम् । वै । ब्रह्मऽज्य । ते । देवा: । अपाम् । भागम् । अधारयन् ॥१९.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 13
विषय - नास्तिक के तिरस्कार का उपदेश।
पदार्थ -
(कृपमाणस्य) दुःख पाते हुए, (जीतस्य) हारे हुए पुरुष के (यानि) जो (अश्रूणि) आँसू (ववृतुः) बहे हैं ! (ब्रह्मज्य) हे ब्राह्मण को हानि पहुँचानेवाले ! (देवाः) महात्माओं ने (ते) तेरे लिये (तम् वै) वही (अपाम्) जल का (भागम्) भाग (अधारयन्) ठहराया है ॥१३॥
भावार्थ - ईश्वर की आज्ञा भङ्ग करनेवाला पुरुष वेदवेत्ताओं द्वारा दण्ड पाकर सदा रोता रहता है ॥१३॥
टिप्पणी -
१३−(अश्रूणि) अश्र्वादयश्च−उ० ५।२९। इति अशू व्याप्तौ−डुन्, रुट् च। नेत्रजलबिन्दवः (कृपमाणस्य) कृप दौर्बल्ये-शानच्। दुर्बलीक्रियमाणस्य (यानि) (जीतस्य) अभिभूतस्य (वावृतुः) वृतु वर्तने−लिट् परस्मैपदित्वं दीर्घत्वं च छान्दसम्। ववृतिरे वर्तमाना बभूवुः (तम्) तादृशं (अपाम्) जलानाम् (भागम्) भजनीयमंशम् (अधारयन्) अस्थापयन्। अन्यद् गतम् ॥