अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 13
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - चतुष्पदा भुरिग्जगती
सूक्तम् - प्रतिसरमणि सूक्त
नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑। सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
स्वर सहित पद पाठन । ए॒न॒म् । घ्न॒न्ति॒ । अ॒प्स॒रस॑: । न । ग॒न्ध॒र्वा: । न । मर्त्या॑: । सर्वा॑: । दिश॑: । वि । रा॒ज॒ति॒ । य: । बिभ॑र्ति । इ॒मम् । म॒णिम् ॥५.१३॥
स्वर रहित मन्त्र
नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः। सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥
स्वर रहित पद पाठन । एनम् । घ्नन्ति । अप्सरस: । न । गन्धर्वा: । न । मर्त्या: । सर्वा: । दिश: । वि । राजति । य: । बिभर्ति । इमम् । मणिम् ॥५.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 13
विषय - हिंसा के नाश का उपदेश।
पदार्थ -
(एनम्) उस पुरुष को (न) न तो (अप्सरसः) अप्सराएँ [आकाश में चलनेवाली बिजुलियाँ], (न) न (गन्धर्वाः) गन्धर्व [पृथिवी धारण करनेवाले मेघ] और (न) न (मर्त्याः) मनुष्य (घ्नन्ति) मारते हैं। वह (सर्वाः) सब (दिशः) दिशाओं पर (वि राजति) शासन करता है, (यः) जो (इमम्) इस [वेद रूप] (मणिम्) मणि [श्रेष्ठ नियम] को (बिभर्ति) रखता है ॥१३॥
भावार्थ - आत्मज्ञानी पुरुषार्थी पुरुष विज्ञान द्वारा सर्वत्र राज्य करता है ॥१३॥
टिप्पणी -
१३−(न) निषेधे (एनम्) आत्मज्ञानिनम् (घ्नन्ति) मारयन्ति (अप्सरसः) अ० ४।७।२। आकाशे सरणशीला विद्युतः (न) (गन्धर्वाः) अ० २।१।२। पृथिवीधारका मेघाः (न) (मर्त्याः) मनुष्याः (सर्वाः) (दिशः) (वि राजति) विविधं शास्ति। अन्यत् पूर्ववत्-म० १२ ॥