Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 2
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    वेदि॑ष्टे॒ चर्म॑ भवतु ब॒र्हिर्लोमा॑नि॒ यानि॑ ते। ए॒षा त्वा॑ रश॒नाग्र॑भी॒द्ग्रावा॑ त्वै॒षोऽधि॑ नृत्यतु ॥

    स्वर सहित पद पाठ

    वेदि॑: । ते॒ । चर्म॑ । भ॒व॒तु॒ । ब॒र्हि: । लोमा॑नि । यानि॑ । ते॒ । ए॒षा । त्वा॒ । र॒श॒ना । अ॒ग्र॒भी॒त् । ग्रावा॑ । त्वा॒ । ए॒ष: । अधि॑ । नृ॒त्य॒तु॒ ॥९.२॥


    स्वर रहित मन्त्र

    वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते। एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥

    स्वर रहित पद पाठ

    वेदि: । ते । चर्म । भवतु । बर्हि: । लोमानि । यानि । ते । एषा । त्वा । रशना । अग्रभीत् । ग्रावा । त्वा । एष: । अधि । नृत्यतु ॥९.२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 2

    टिप्पणीः - २−(वेदिः) परिष्कृता यज्ञभूमिः (ते) तुभ्यम् (चर्म) मम शरीरम् (भवतु) (बर्हिः) कम्बलकुशाद्यासनम् (लोमानि) रोमाणि (यानि) (ते) तुभ्यम्, तानीति शेषः (एषा) दृश्यमाना (त्वा) त्वाम् (रशना) अशे रश च। उ० २।७५। अशू व्याप्तौ-युच्, टाप्। रशादेशश्च धातोः। जिह्वा-इति शब्दकल्पद्रुमः। रशनाः, अङ्गुलिनाम-निघ० २।५। (अग्रभीत्) गृहीतवती (ग्रावा) अ० ३।१०।५। गॄ विज्ञाने-क्वनिप्। शास्त्रविज्ञापकः। पण्डितः। ग्रावाणः पदनाम-निघ० ५।३। (त्वा) (एषः) (अधि) अधिकृत्य (नृत्यतु) अङ्गानि विक्षिपतु ॥

    इस भाष्य को एडिट करें
    Top