Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 26
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - पञ्चपदा बृहत्यनुष्टुबुष्णिग्गर्भा जगती सूक्तम् - शतौदनागौ सूक्त

    उ॒लूख॑ले॒ मुस॑ले॒ यश्च॒ चर्म॑णि॒ यो वा॒ शूर्पे॑ तण्डु॒लः कणः॑। यं वा॒ वातो॑ मात॒रिश्वा॒ पव॑मानो म॒माथा॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ॥

    स्वर सहित पद पाठ

    उ॒लूख॑ले । मुस॑ले । य: । च॒ । चर्म॑णि । य: । वा॒ । शूर्पे॑ । त॒ण्डु॒ल: । कण॑: । यम् । वा॒ । वात॑: । मा॒त॒रिश्वा॑ । पव॑मान: । म॒माथ॑ । अ॒ग्नि: । तत् । होता॑ । सुऽहु॑तम् । कृ॒णो॒तु॒ ॥९.२६॥


    स्वर रहित मन्त्र

    उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः। यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥

    स्वर रहित पद पाठ

    उलूखले । मुसले । य: । च । चर्मणि । य: । वा । शूर्पे । तण्डुल: । कण: । यम् । वा । वात: । मातरिश्वा । पवमान: । ममाथ । अग्नि: । तत् । होता । सुऽहुतम् । कृणोतु ॥९.२६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 26

    टिप्पणीः - २६−(उलूखले) अ० ९।६(१)।१५। धान्यादिकण्डनसाधने (मुसले) अ० ६।(१)।१५। धान्यादिखण्डनसाधने (चर्मणि) आजनं चर्म कृतिः स्त्री-इत्यमरः १७।४७। अजिने। मृगचर्मणि। व्याघ्रचर्मणि (शूर्पे) अ० ९।६(१)।१६। धान्यस्फोटकयन्त्रे (तण्डुलः) सानसिवर्णसिपर्णसितण्डुला०। उ० ४।१७। तडि आघाते-उलच्। यद्वा, वृञ्लुटितनितडिभ्य उलच् तण्डश्च। उ० ५।९। वृञादिभ्यः-उलच्, सर्वेषां तण्डादेशश्च। तुषरहितो व्रीहिः (कणः) धान्यादेरतिसूक्ष्मांशः (यम्) (वा) (वातः) वायुः (मातरिश्वा) अ० ५।१०।८। आकाशगमनः (पवमानः) संशोधकः (ममाथ) मथितवान् (अग्निः) सर्वव्यापकः परमेश्वरः (तत्) (होता) दाता (सुहुतम्) सुष्ठु स्वीकृतम् (कृणोतु) करोतु ॥

    इस भाष्य को एडिट करें
    Top