अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 12
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शतौदनागौ सूक्त
ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये ये चे॒मे भूम्या॒मधि॑। तेभ्य॒स्त्वं धु॑क्ष्व सर्व॒दा क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठये । दे॒वा: । दि॒वि॒ऽसद॑: । अ॒न्त॒रि॒क्ष॒ऽसद॑: । च॒ । ये । ये । च॒ । इ॒मे । भूम्या॑म् । अधि॑ । तेभ्य॑: । त्वम् । धु॒क्ष्व॒ । स॒र्व॒दा । क्षी॒रम् । स॒र्पि: । अथो॒ इति॑ । मधु॑ ॥९.१२॥
स्वर रहित मन्त्र
ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि। तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठये । देवा: । दिविऽसद: । अन्तरिक्षऽसद: । च । ये । ये । च । इमे । भूम्याम् । अधि । तेभ्य: । त्वम् । धुक्ष्व । सर्वदा । क्षीरम् । सर्पि: । अथो इति । मधु ॥९.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(ये) (देवाः) दिव्यगुणाः (दिविषदः) सूर्ये स्थिताः (अन्तरिक्षसदः) अन्तरिक्षे वर्तमानाः (च) (ये) (ये) (च) (इमे) (भूम्याम्) (अधि) उपरि (तेभ्यः) देवेभ्यः सकाशात् (त्वम्) (धुक्ष्व) दुग्धि। प्रपूरय (सर्वदा) (क्षीरम्) दुग्धम् (सर्पिः) घृतम् (अथो) अपि च (मधु) मधुज्ञानम्। ब्रह्मविद्याम् ॥
इस भाष्य को एडिट करें