Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 5
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    स स्व॒र्गमा रो॑हति॒ यत्रा॒दस्त्रि॑दि॒वं दि॒वः। अ॑पू॒पना॑भिं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥

    स्वर सहित पद पाठ

    स: । स्व॒:ऽगम् । आ । रो॒ह॒ति॒ । यत्र॑ । अ॒द: । त्रि॒ऽदि॒वम् । दि॒व: । अ॒पू॒पऽना॑भिम् । कृ॒त्वा । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.५॥


    स्वर रहित मन्त्र

    स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः। अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥

    स्वर रहित पद पाठ

    स: । स्व:ऽगम् । आ । रोहति । यत्र । अद: । त्रिऽदिवम् । दिव: । अपूपऽनाभिम् । कृत्वा । य: । ददाति । शतऽओदनाम् ॥९.५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 5

    टिप्पणीः - ५−(सः) पुरुषः (स्वर्गम्) सुखविशेषम् (आरोहति) उन्नत्या प्राप्नोति (यत्र) यस्मिन् स्वर्गे (अदः) तत्। प्रसिद्धम् (त्रिदिवम्) अ० ९।५।१०। त्रि+दिवु व्यवहारे-क। त्रयाणां दिवानामायव्ययवृद्धिव्यवहाराणां स्थानम् (दिवः) दिवु विजिगीषायाम्−डिवि। विजयस्य (अपूपनाभिम्) पानीविषिभ्यः पः। उ० ३।२३। नञ् पूयी विशरणे दुर्गन्धे च−प प्रत्ययः, यलोपः। नहो भश्च। उ० ४।१२६। णह बन्धने-इञ्, नस्य भः। अपूपमविशीर्णम् अक्षीणं नाभिं बन्धुम् (कृत्वा) मत्वा (यः) (ददाति) प्रयच्छति (शतौदनाम्) म० १। बहुप्रकारसेचिकां वेदवाणीम् ॥

    इस भाष्य को एडिट करें
    Top