अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 15
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
न व॒र्षं मै॑त्रावरु॒णं ब्र॑ह्म॒ज्यम॒भि व॑र्षति। नास्मै॒ समि॑तिः कल्पते॒ न मि॒त्रं न॑यते॒ वश॑म् ॥
स्वर सहित पद पाठन । व॒र्षम् । मै॒त्रा॒व॒रु॒णम् । ब्र॒ह्म॒ऽज्यम् । अ॒भि । व॒र्ष॒ति॒ । न । अ॒स्मै॒ । सम्ऽइ॑ति: ।क॒ल्प॒ते॒ । न । मि॒त्रम् । न॒य॒ते॒ । वश॑म् ॥१९.१५॥
स्वर रहित मन्त्र
न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति। नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥
स्वर रहित पद पाठन । वर्षम् । मैत्रावरुणम् । ब्रह्मऽज्यम् । अभि । वर्षति । न । अस्मै । सम्ऽइति: ।कल्पते । न । मित्रम् । नयते । वशम् ॥१९.१५॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(न) निषेधे (वर्षम्) वृष्टिः (मैत्रावरुणम्) तेन निर्वृत्तम्। पा० ४।२।६८। इति मित्रावरुणा−अण्। मित्रावरुणाभ्यां वायुसूर्याभ्यां निर्वृत्तं निष्पादितम् (ब्रह्मज्यम्) म० ७। ब्राह्मणस्य हानिकरम् (अभि) प्रति (वर्षति) सिञ्चति (न) (अस्मै) ब्रह्मविरोधिने (समितिः) सभा (कल्पते) समर्था सफला भवति (न) (मित्रम्) सुहृदम् (नयते) प्रापयति (वशम्) अधीनत्वम् ॥
इस भाष्य को एडिट करें