Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 7
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - उपरिष्टाद्बृहती सूक्तम् - ब्रह्मगवी सूक्त

    अ॒ष्टाप॑दी चतुर॒क्षी चतुः॑श्रोत्रा॒ चतु॑र्हनुः। द्व्या॑स्या॒ द्विजि॑ह्वा भू॒त्वा सा रा॒ष्ट्रमव॑ धूनुते ब्रह्म॒ज्यस्य॑ ॥

    स्वर सहित पद पाठ

    अ॒ष्टाऽप॑दी । च॒तु:ऽअ॒क्षी: । चतु॑:ऽश्रोत्रा । चतु॑:ऽहनु: । द्विऽआ॑स्या । द्विऽजि॑ह्वा । भू॒त्वा । सा ।रा॒ष्ट्रम् । अव॑ । धू॒नु॒ते॒ । ब्र॒ह्म॒ऽज्यस्य॑ ॥१९.७॥


    स्वर रहित मन्त्र

    अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः। द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य ॥

    स्वर रहित पद पाठ

    अष्टाऽपदी । चतु:ऽअक्षी: । चतु:ऽश्रोत्रा । चतु:ऽहनु: । द्विऽआस्या । द्विऽजिह्वा । भूत्वा । सा ।राष्ट्रम् । अव । धूनुते । ब्रह्मऽज्यस्य ॥१९.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 7

    टिप्पणीः - ७−(अष्टापदी) अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च तथा कामावसायिता ॥१॥ इति अष्टैश्वर्याणि पदानि प्राप्तव्यानि यया सा (चतुरक्षी) अशेर्नित्। उ० ३।१५६। इति अशू व्याप्तौ−क्सि, ङीप्। चतुर्षु ब्राह्मणक्षत्रियवैश्यशूद्रेषु वर्णेषु अक्षि व्याप्तिर्यस्याः सा (चतुःश्रोत्रा) चतुर्षु ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसंन्यासाश्रमेषु श्रोत्रं श्रवणं कीर्तनं यस्याः सा (चतुर्हनुः) शॄस्वृस्निहि०। उ० १।१०। इति हन गतौ−उ प्रत्ययः। चतुर्षु धर्मार्थकाममोक्षेषु पदार्थेषु हनुर्गतिर्यस्याः सा (द्व्यास्या) ऋहलोर्ण्यत्। पा० –३।१।१२४। इति अस ग्रहणे−ण्यत्। द्वे परमात्मजीवात्मज्ञाने आस्ये ग्राह्ये यया सा (द्विजिह्वा) शेवायह्वजिह्वा०। उ० १।१५४। इति जि जये−वन्−हुक् च। द्वे बाह्याभ्यन्तरसुखे जेतव्ये यया सा (भूत्वा) (सा) ब्रह्मविद्या (राष्ट्रम्) राज्यम् (अव) अनादरे (धूनुते) धूञ् कम्पने−कम्पयति (ब्रह्मज्यस्य) ब्रह्म+ज्या वयोहानौ−क, अन्तर्गतण्यर्थः। ब्राह्मणस्य हानिकारकस्य ॥

    इस भाष्य को एडिट करें
    Top