Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 2
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - ब्रह्मगवी सूक्त

    ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन्ब्राह्म॒णं जनाः॑। पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ॥

    स्वर सहित पद पाठ

    ये । बृ॒हत्ऽसा॑मानम् । अ॒ङ्गि॒र॒सम् । आर्प॑यन् । ब्रा॒ह्म॒णम् । जना॑: । पेत्व॑: । तेषा॑म् । उ॒भ॒याद॑म् । अवि॑: । तो॒कानि॑ । आ॒व॒य॒त् ॥१९.२॥


    स्वर रहित मन्त्र

    ये बृहत्सामानमाङ्गिरसमार्पयन्ब्राह्मणं जनाः। पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥

    स्वर रहित पद पाठ

    ये । बृहत्ऽसामानम् । अङ्गिरसम् । आर्पयन् । ब्राह्मणम् । जना: । पेत्व: । तेषाम् । उभयादम् । अवि: । तोकानि । आवयत् ॥१९.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 2

    टिप्पणीः - २−(ये) (बृहत्सामानम्) स्यति दुःखमिति साम। सातिभ्यां मनिन्मणिनौ। उ० ४।१।५३। इति षो अन्तकर्मणि−मनिन्। महादुःखनाशकज्ञानोपेतम् (आङ्गिरसम्) अ० २।१२।४। अङ्गिरो विज्ञानमस्यास्तीति−अण्। विज्ञानवन्तम् (आर्पयन्) ऋ हिंसायाम्−स्वार्थे णिच्, षुक् च लिङ्। हिंसितवन्तः (ब्राह्मणम्) वेदवेत्तारम् (जनाः) नास्तिकजनाः (पेत्वः) अन्येभ्योऽपि दृश्यन्ते। उ० ४।१०५। इति पि गतौ−त्वन्। गतिशीलः (तेषाम्) शत्रुजनानाम् (उभयादम्) वलिमलितनिभ्यः कयन्। उ० ४।९९। इति उभ पूर्तौ−कयन्+आ+दा−क। बहुवचनस्यैकवचनम्। उभयादान् पूर्तिग्राहकान् (अविः) सर्वधातुभ्य इन्। उ० ४।११८। इति अव रक्षणे−इन्। रक्षकः। ब्राह्मणः (तोकानि) अ० १।१३।२। तु वृद्धौ−क। वृद्धिकर्माणि (आवयत्) आ+वा असने−लङ् छान्दसः शप्। आवेत्। प्रक्षिप्तवान् ॥

    इस भाष्य को एडिट करें
    Top