Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 9
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    तं वृ॒क्षा अप॑ सेधन्ति च्छा॒यां नो॒ मोप॑गा॒ इति॑। यो ब्रा॑ह्म॒णस्य॒ सद्धन॑म॒भि ना॑रद॒ मन्य॑ते ॥

    स्वर सहित पद पाठ

    तम् । वृ॒क्षा: । अप॑ । से॒ध॒न्ति॒ । छा॒याम् । न॒: । मा । उप॑ । गा॒: । इति॑ ।य: । ब्रा॒ह्म॒णस्य॑ । सत् । धन॑म् । अ॒भि । ना॒र॒द॒ । मन्य॑ते ॥१९.९॥


    स्वर रहित मन्त्र

    तं वृक्षा अप सेधन्ति च्छायां नो मोपगा इति। यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥

    स्वर रहित पद पाठ

    तम् । वृक्षा: । अप । सेधन्ति । छायाम् । न: । मा । उप । गा: । इति ।य: । ब्राह्मणस्य । सत् । धनम् । अभि । नारद । मन्यते ॥१९.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 9

    टिप्पणीः - ९−(तम्) अत्याचारिणम् (वृक्षाः) अ० ३।६।८। स्वीकरणीयास्तरवः (अप सेधन्ति) अपसेधयन्ति निवारयन्ति (छायाम्) (नः) अस्माकम् (मा उप गाः) इणो गा लुङि। पा० २।४।४५। इति इण् गतौ लुङि गादेशः। अडभावो माङि। न प्राप्नुहि (इति) वाक्यसमाप्तौ (यः) दुष्टः (ब्राह्मणस्य) ब्रह्मवेत्तुः (सत्) श्रेष्ठम् (धनम्) वित्तम् (अभि) अभिभूय (नारद) नरति नयतीति नरः। नृ नये−अच्। नरस्येदम्, अण्। नारं परमात्मज्ञानं ददातीति, दा−क। हे सर्वनायकपरमेश्वरस्य ज्ञानप्रद (मन्यते) स्वकीयं जानाति ॥

    इस भाष्य को एडिट करें
    Top