अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 53
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अग्नी॑षोमा॒पथि॑कृता स्यो॒नं दे॒वेभ्यो॒ रत्नं॑ दधथु॒र्वि लो॒कम्। उप॒ प्रेष्य॑न्तंपू॒षणं॒ यो वहा॑त्यञ्जो॒यानैः॑ प॒थिभि॒स्तत्र॑ गच्छतम् ॥
स्वर सहित पद पाठअग्नी॑षोमा । पथि॑ऽकृता । स्यो॒नम् । दे॒वेभ्य॑: । रत्न॑म् । द॒ध॒थु॒: । वि । लो॒कम् । उप॑ । प्र । ईष्य॑न्तम् । पू॒षण॑म् । य: । वहा॑ति । अ॒ञ्ज॒:ऽयानै॑: । प॒थिऽभि॑: । तत्र॑ । ग॒च्छ॒त॒म् ॥२.५३॥
स्वर रहित मन्त्र
अग्नीषोमापथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम्। उप प्रेष्यन्तंपूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥
स्वर रहित पद पाठअग्नीषोमा । पथिऽकृता । स्योनम् । देवेभ्य: । रत्नम् । दधथु: । वि । लोकम् । उप । प्र । ईष्यन्तम् । पूषणम् । य: । वहाति । अञ्ज:ऽयानै: । पथिऽभि: । तत्र । गच्छतम् ॥२.५३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 53
विषय - सत्पुरुषों के मार्ग पर चलने का उपदेश।
पदार्थ -
(अग्नीषोमा) हेज्ञानवान् और ऐश्वर्यवान् ! [स्त्री-पुरुषो] (पथिकृता) मार्ग बनानेवाले तुमदोनों (देवेभ्यः) विद्वानों को (स्योनम्) सुख, (रत्नम्) रत्न और (लोकम्) स्थान (वि) विविध प्रकार (दधथुः) दो। (यः) जो [परमेश्वर] (अञ्जोयानैः) सीधे चलनेवाले (पथिभिः) मार्गों से [हम सबको] (वहाति) ले चलता है, (प्र ईष्यन्तम्) उस अच्छेप्रकार देखते हुए (पूषणम्) पोषक परमात्मा को (उप) प्राप्त होकर (तत्र) वहाँ [मार्गों में] (गच्छतम्) तुम दोनों चलो ॥५३॥
भावार्थ - सब स्त्री-पुरुषविद्वानों का सब प्रकार सत्कार करके वेदविहित मार्गों पर चल कर परमात्मा कोसाक्षात् करके परम आनन्द पावें ॥५३॥
टिप्पणी -
५३−(अग्नीषोमा) अग गतौ-नि+षूप्रसवैश्वर्ययोः-मन्। ज्ञानैश्वर्यवन्तौ स्त्रीपुरुषौ (पथिकृता) मार्गकर्तारौ (स्योनम्) सुखम् (देवेभ्यः) विद्वद्भ्यः (रत्नम्) प्रशस्तं धनम् (दधथुः) लोडर्थेलिट्। धत्तम्। दत्तम् (वि) विविधम् (लोकम्) स्थानम् (उप) उपेत्य (प्र) प्रकर्षेण (ईष्यन्तम्) ईष गतिहिंसादर्शनेषु-शतृ। पश्यन्तम् (पूषणम्) तं पोषकं परमात्मानम् (यः) पूषा परमात्मा (वहाति) लडर्थे लेट्। वहति। नयति (अञ्जोयानैः) अञ्जसासरलभावेन गन्तृभिः (पथिभिः) मार्गैः (तत्र) तेषु मार्गेषु (गच्छतम्) ॥