अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 9
यास्ते॑ शो॒चयो॒रंह॑यो जातवेदो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्। अ॒जं यन्त॒मनु॒ ताःसमृ॑ण्वता॒मथेत॑राभिः शि॒वत॑माभिः शृ॒तं कृ॑धि ॥
स्वर सहित पद पाठया: । ते॒ । शो॒चय॑: । रंह॑य: । जा॒त॒ऽवे॒द॒: । याभि॑: । आ॒ऽपृ॒णासि॑ । दिव॑म् । अ॒न्तरि॑क्षम् । अ॒जम् । यन्त॑म् । अनु॑ । ता: । सम् । ऋ॒ण्व॒ता॒म् । अथ॑ । इत॑राभि: । शि॒वऽत॑माभि: । शृ॒तम् । कृ॒धि॒ ॥२.९॥
स्वर रहित मन्त्र
यास्ते शोचयोरंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम्। अजं यन्तमनु ताःसमृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥
स्वर रहित पद पाठया: । ते । शोचय: । रंहय: । जातऽवेद: । याभि: । आऽपृणासि । दिवम् । अन्तरिक्षम् । अजम् । यन्तम् । अनु । ता: । सम् । ऋण्वताम् । अथ । इतराभि: । शिवऽतमाभि: । शृतम् । कृधि ॥२.९॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 9
विषय - आचार्य और ब्रह्मचारी के कर्त्तव्य का उपदेश।
पदार्थ -
(जातवेदः) हे बड़ेविद्वान् ! [मनुष्य] (याः) जो (ते) तेरी (शोचयः) पवित्र क्रियाएँ और (रंहयः)वेग क्रियाएँ हैं और (याभिः) जिन [क्रियाओं] से (दिवम्) व्यवहारकुशल [वागतिमान्] (अन्तरिक्षम्) मध्यवर्ती हृदय को (आपृणासि) तू सब ओर से पूर्ण करता है। (ताः) वे [सब क्रियाएँ] (यन्तम्) चलते हुए (अजम् अनु) अजन्मे [वा गतिशीलजीवात्मा] के अनुकूल होकर (सम्) ठीक-ठीक (ऋण्वताम्) चलें, (अथ) फिर तू (इतराभिः)दूसरी [ईश्वर की प्राप्तिवाली] (शिवतमाभिः) अत्यन्त कल्याणकारी [क्रियाओं] से [जीवात्मा] को (शृतम्) परिपक्व (कृधि) कर ॥९॥
भावार्थ - जो मनुष्य अपनी शुद्धऔर वेगवाली वृत्तियों को व्यवहारकुशल वा गतिमान् मन में ठहराकर पुरुषार्थीजीवात्मा को खोजते हैं, वे ही फिर परमात्मा को पाकर पक्के ज्ञानी होते हैं॥९॥
टिप्पणी -
९−(याः) (ते) तव (शोचयः) शुचिक्रियाः (रंहयः) रहि गतौ-इ प्रत्ययः। वेगक्रियाः (जातवेदः) हे प्रसिद्धज्ञान महाविद्वन् (याभिः) पूर्वोक्ताभिः (आपृणासि)समन्तात् पूरयसि (दिवम्) दिवु व्यवहारे गतौ च-क। व्यवहारकुशलम्। गतियुक्तम् (अन्तरिक्षम्) मध्ये दृश्यमानं हृदयम् (अजम्) अजन्मानं गतिमन्तं वा जीवात्मानम् (यन्तम्) इण् गतौ-शतृ। गच्छन्तम्। (ताः) पूर्वोक्ताः क्रियाः (ऋण्वताम्) ऋणगतौ-लोट्। गच्छन्तु (अथ) पुनः। जीवात्मप्राप्तिपश्चात् (इतराभिः)जीवात्मभिन्नाभिः परमात्मप्राप्तिक्रियाभिः (शिवतमाभिः) अत्यन्तसुखकराभिः (शृतम्) परिपक्वज्ञानम् (कृधि) कुरु−जीवात्मानमिति शेषः ॥