अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 11
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
इ॑न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम्। न॒ह्यस्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठइ॒न्द्राणीम् । आ॒सु । नारि॑षु । सु॒ऽभगा॑म् । अ॒हम् । अ॒श्र॒व॒म् ॥ न॒हि । अ॒स्या॒: । अ॒प॒रम् । च॒न । ज॒रसा॑ । भर॑ते । पति॑: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.११॥
स्वर रहित मन्त्र
इन्द्राणीमासु नारिषु सुभगामहमश्रवम्। नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठइन्द्राणीम् । आसु । नारिषु । सुऽभगाम् । अहम् । अश्रवम् ॥ नहि । अस्या: । अपरम् । चन । जरसा । भरते । पति: । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 11
विषय - गृहस्थ के कर्तव्य का उपदेश।
पदार्थ -
(आसु) इन (नारिषु) चलायी गयी प्रजाओं के बीच (इन्द्राणीम्) इन्द्राणी [बड़े ऐश्वर्यवाले पुरुष की विभूति वा शक्ति] को (सुभगाम्) बड़ी भगवती [ऐश्वर्यवाली] (अहम्) मैंने (अश्रवम्) सुना है (अस्याः) इस [विभूति] का (पतिः) पति [पालन करनेवाला, इन्द्र यह मनुष्य] (अपरम् चन) दूसरे प्राणियों के समान (जरसा) वयोहानि से (नहि) नहीं (मरते) मरता है, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥११॥
भावार्थ - यह वेदादि शास्त्रों से प्रसिद्ध है कि उन्नतिशील मनुष्य अपनी बुद्धि आदि शक्तियों को ठिकाने रखकर सदा बलवान् रहकर यशस्वी होवे ॥११॥
टिप्पणी -
११−(इन्द्राणीम्) इन्द्राणीन्द्रस्य पत्नी-निरु० ११।३७। इन्द्राणी इन्द्रस्य पत्नी इन्द्रस्य विभूतिः-दुर्गाचार्यः। परमैश्वर्यवतः पुरुषस्य विभूतिं शक्तिम् (आसु) दृश्यमानासु (नारिषु) वसिवपियजि०। उ० ४।१२। नॄ नये-इञ्। नीतासु प्रजासु (सुभगाम्) बह्वैश्वर्यवतीम् (अहम्) मनुष्यः (अश्रवम्) अश्रौषम्। श्रुतवानस्मि (नहि) नैव (अस्याः) विभूतेः (अपरम्) अन्यत् प्राणिजातम् (चन) सादृश्ये (जरसा) वयोहान्या। निर्बलत्वेन (मरते) द्विषते। (पतिः) पालकः। अन्यद् गतम् ॥