अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 22
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन। क्व स्य पु॑ल्व॒घो मृ॒गः कम॑गं जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठयत् । उद॑ञ्च: । वृ॒षा॒क॒पे॒ । गृ॒हम् । इ॒न्द्र॒ । अज॑गन्तन ॥ क्व । स्य: । पु॒ल्व॒घ: । मृ॒ग: । कम् । अ॒ग॒न् । ऊ॒न॒ऽयोप॑न: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.२२॥
स्वर रहित मन्त्र
यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन। क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठयत् । उदञ्च: । वृषाकपे । गृहम् । इन्द्र । अजगन्तन ॥ क्व । स्य: । पुल्वघ: । मृग: । कम् । अगन् । ऊनऽयोपन: । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.२२॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 22
विषय - गृहस्थ के कर्तव्य का उपदेश।
पदार्थ -
(वृषाकपे) हे वृषाकपि ! [बलवान् चेष्टा करानेवाले जीवात्मा] (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले मनुष्य] [और हे इन्द्राणी ! मनुष्य की विभूति] (यत्) जब (उदञ्चः) ऊँचे चढ़ते हुए तुम सब (गृहम्) घर (अजगन्तन) पहुँच गये, (स्यः) वह (पुल्वघः) महापापी, (जनयोपनः) मनुष्य को घबरा देनेवाला, (मृगः) पशु [पशु समान गिरा हुआ जीवात्मा] (क्व) कहाँ (कम्) किस मनुष्य को (अगन्) पहुँचा, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥२२॥
भावार्थ - जब मनुष्य अपने आत्मा और बुद्धि आदि विभूति को ठिकाने ले आता है, वह कभी भी दुष्ट कर्म करके संकट में नहीं पड़ता है ॥२२॥
टिप्पणी -
२२−(यत्) यदा (उदञ्चः) उद्गामिनः सन्तः। (वृषाकपे) म० १। हे बलवन् चेष्टयितर्जीवात्मन् (गृहम्) (इन्द्र) परमैश्वर्यवन् मनुष्य ! हे इन्द्राणि च यूयं सर्वे (अजगन्तन) गमेर्लङि मध्यमबहुवचने छान्दसः। शपः श्लुः। तप्तनप्तनथनाश्च। पा० ७।१।४। तनबादेशः। यूयम् अगच्छत (क्व) कुत्र (स्यः) सः (पुल्वघः) पुरु+अघ पापकरणे-अच् रस्य लः। बहुपापः (मृगः) म० ३। पशुतुल्यो नीचगामी जीवात्मा (कम्) प्रश्ने। मनुष्यम् (अगन्) अगच्छत् (जनयोपनः) जनमोहनः। अन्यद् गतम् ॥