अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 4
वं॒शानां॑ ते॒ नह॑नानां प्राणा॒हस्य॒ तृण॑स्य च। प॒क्षाणां॑ विश्ववारे ते न॒द्धानि॒ वि चृ॑तामसि ॥
स्वर सहित पद पाठवं॒शाना॑म् । ते॒ । नह॑नानाम् । प्रा॒ण॒हस्य॑ । तृण॑स्य । च॒ । प॒क्षाणा॑म् । वि॒श्व॒ऽवा॒रे॒ । ते॒ । न॒ध्दानि॑ । वि । चृ॒ता॒म॒सि॒ ॥३.४॥
स्वर रहित मन्त्र
वंशानां ते नहनानां प्राणाहस्य तृणस्य च। पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥
स्वर रहित पद पाठवंशानाम् । ते । नहनानाम् । प्राणहस्य । तृणस्य । च । पक्षाणाम् । विश्वऽवारे । ते । नध्दानि । वि । चृतामसि ॥३.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 4
विषय - शाला बनाने की विधि का उपदेश।[इस सूक्त का मिलान अथर्व काण्ड ३ सूक्त १२ से करो]
पदार्थ -
(विश्ववारे) हे सब उत्तम पदार्थोंवाली ! (ते) तेरे (वंशानाम्) बाँसों, (नहनानाम्) गाँठों (च) और (प्राणाहस्य) बन्धन की (तृणस्य) घास के और (ते) तेरे (पक्षाणाम्) पक्खों [भीति आदि] के (नद्धानि) बन्धनों को (वि) अच्छे प्रकार (चृतामसि) हम गूँथते हैं ॥४॥
भावार्थ - मनुष्य घर बनाने में सब अङ्गों के जोड़ों को यथावत् दृढ़ करें ॥४॥
टिप्पणी -
४−(वंशानाम्) वश कान्तौ-अच् घञ् वा, नुम् च। वेणूनाम् (ते) तव (नहनानाम्) ग्रन्थीनाम् (प्राणाहस्य) प्र+आङ्+णह बन्धने-घञ्। बन्धनसाधनस्य (तृणस्य) (च) (पक्षाणाम्) पक्ष परिग्रहे-अच्। गृहपार्श्वानाम् (विश्ववारे) हे सर्ववरणीयपदार्थयुक्ते। अन्यत् पूर्ववत् ॥