अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - शाला
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शाला सूक्त
यानि॑ ते॒ऽन्तः शि॒क्यान्याबे॒धू र॒ण्या॑य॒ कम्। प्र ते॒ तानि॑ चृतामसि शि॒वा मा॑नस्य पत्नी न॒ उद्धि॑ता त॒न्वे भव ॥
स्वर सहित पद पाठयानि॑ । ते॒ । अ॒न्त: । शि॒क्या᳡नि । आ॒ऽबे॒धु: । र॒ण्या᳡य । कम् । प्र । ते॒ । तानि॑ । चृ॒ता॒म॒सि॒ । शि॒वा । मा॒न॒स्य॒ । प॒त्नि॒ । न॒: । उध्दि॑ता । त॒न्वे᳡ । भ॒व॒ ॥३.६॥
स्वर रहित मन्त्र
यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम्। प्र ते तानि चृतामसि शिवा मानस्य पत्नी न उद्धिता तन्वे भव ॥
स्वर रहित पद पाठयानि । ते । अन्त: । शिक्यानि । आऽबेधु: । रण्याय । कम् । प्र । ते । तानि । चृतामसि । शिवा । मानस्य । पत्नि । न: । उध्दिता । तन्वे । भव ॥३.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 6
विषय - शाला बनाने की विधि का उपदेश।[इस सूक्त का मिलान अथर्व काण्ड ३ सूक्त १२ से करो]
पदार्थ -
(ते अन्तः) तेरे भीतर (यानि) जिन (शिक्यानि) छींकों को (कम्) सुख से (रण्याय) रमणीय वा सांग्रामिक कर्म के लिये (आबेधुः) उन [शिल्पियों] ने भली-भाँति बाँधा है। (ते) तेरे लिये (तानि) उन सबको (प्र चृतामसि) हम भली-भाँति दृढ़ करते हैं, (मानस्य) सन्मान की (पत्नी) रक्षा करनेवाली तू (नः) हमारे (तन्वे) उपकार के लिये (शिवा) कल्याणी और (उद्धिता) ऊँची उठी हुई (भव) हो ॥६॥
भावार्थ - मनुष्य विज्ञानवृद्धि, मन बहलाव और युद्ध आदि के लिये कलायन्त्र आदिकों के लटकाने के लिये सुखदायक ऊँचे घर बनावें ॥६॥
टिप्पणी -
६−(यानि) (ते) तव (अन्तः) मध्ये (शिक्यानि) स्रंसेः शिः कुट् किच्च। उ० ५।१६। स्रंसु अधःपतने-यत्, कित्, कुट् च, धातोः शिः। द्रव्यरक्षार्थरज्जुमयाधारविशेषान्। काचान् (आबेधुः) बध बन्धने। समन्तात् संयोजितवन्तः (रण्याय) रमु उपरमे-यत्, मस्य णः, यद्वा, रण शब्दे-यत् रण्या.... रण्यौ रमणीयौ सांग्राम्यौ वा-निरु० ६।३३। रमणीयाय साङ्ग्रामिकाय वा कर्मणे (प्र) प्रकर्षेण (ते) तुभ्यम् (तानि) शिक्यानि (चृतामसि) बध्नीमः (शिवा) कल्याणी (मानस्य) सत्कारस्य (पत्नी) रक्षिका (नः) अस्माकम् (उद्धिता) धि धारणे-क्त। उद्धृता। उच्छ्रिता (तन्वे) उपकृतये (भव) ॥