अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - तक्मनाशन सूक्त
अ॒ग्निस्त॒क्मान॒मप॑ बाधतामि॒तः सोमो॒ ग्रावा॒ वरु॑णः पू॒तद॑क्षाः। वेदि॑र्ब॒र्हिः स॒मिधः॒ शोशु॑चाना॒ अप॒ द्वेषां॑स्यमु॒या भ॑वन्तु ॥
स्वर सहित पद पाठअ॒ग्नि: । त॒क्मान॑म् । अप॑ । बा॒ध॒ता॒म् । इ॒त: । सोम॑: । ग्रावा॑ । वरु॑ण: । पू॒तऽद॑क्षा । वेदि॑: । ब॒र्हि: । स॒म्ऽइध॑: । शोशु॑चाना: । अप॑ । द्वेषां॑सि । अ॒मु॒या॒ । भ॒व॒न्तु॒ ॥२२.१॥
स्वर रहित मन्त्र
अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः। वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥
स्वर रहित पद पाठअग्नि: । तक्मानम् । अप । बाधताम् । इत: । सोम: । ग्रावा । वरुण: । पूतऽदक्षा । वेदि: । बर्हि: । सम्ऽइध: । शोशुचाना: । अप । द्वेषांसि । अमुया । भवन्तु ॥२२.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अग्निः) विद्वान् (तक्मानम्) अ० १।२५।१। कृच्छ्रजीवनकरं ज्वरम् (अप बाधताम्) निवारयतु (इतः) अस्माद् देशात् पुरुषाद्वा (सोमः) तत्त्वमन्थिता (ग्रावा) अ० ५।२०।१०। शास्त्रविज्ञापकः। सूक्ष्मदर्शी (वरुणः) वरणयोग्यः। श्रेष्ठः (पूतदक्षाः) दक्ष वृद्धौ शैघ्र्ये च−असुन्। दक्षो बलनाम−निघ० २।९। पूतं पवित्रं दक्षो बलं यस्मात् सः (वेदिः) हृपिषिरुहिवृतिविदि०। उ० ४।११९। इति विद ज्ञाने−इन्। पण्डितः (बर्हिः) बृंहेर्नलोपश्च। उ० २।१०९। इति बृहि वृद्धौ दीप्तौ च−इसि। प्रवृद्धं कर्म। दीप्तियुक्तः (समिधः) सम्+ञिइन्धी दीप्तौ−क्विप्। इन्धनानि (शोशुचानाः) अ० ४।११।३। देदीप्यमानाः (अप) अपगतानि (द्वेषांसि) अप्रियाणि वस्तूनि (अमुया) सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्याच्। परस्मिन्देशे (भवन्तु) सन्तु ॥
इस भाष्य को एडिट करें