अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
अ॑ध॒राञ्चं॒ प्र हि॑णो॒मि नमः॑ कृ॒त्वा त॒क्मने॑। श॑कम्भ॒रस्य॑ मुष्टि॒हा पुन॑रेतु महावृ॒षान् ॥
स्वर सहित पद पाठअ॒ध॒राञ्च॑म् । प्र । हि॒नो॒मि॒ । नम॑: । कृ॒त्वा । त॒क्मने॑ । श॒क॒म्ऽभ॒रस्य॑ । मु॒ष्टि॒ऽहा । पुन॑: । ए॒तु॒ । म॒हा॒ऽवृ॒षान् ॥२२.४॥
स्वर रहित मन्त्र
अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने। शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥
स्वर रहित पद पाठअधराञ्चम् । प्र । हिनोमि । नम: । कृत्वा । तक्मने । शकम्ऽभरस्य । मुष्टिऽहा । पुन: । एतु । महाऽवृषान् ॥२२.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(अधराञ्चम्) म० २। निम्नदेशम् (प्र हिणोमि) हि गतौ, अन्तर्गतण्यर्थः। प्रेरयामि (नमः) नमस्कारम् (कृत्वा) विधाय (तक्मने) कृच्छ्रजीवनकराय ज्वराय (शकम्भरस्य) शक्लृ शक्तौ−अच्। संज्ञायां भृतॄवृजि०। पा० ३।२।४६। इति शक+भृञ् धारणपोषणयोः−खच्, मुम्। शक्तिधारकस्य। बलवतः पुरुषस्य (मुष्टिहा) मुष्टिना हन्ता ज्वरः (पुनः) परावृत्य (एतु) गच्छतु (महावृषान्) वृषु सेचने−क। महावृष्टियुक्तान् देशान् ॥
इस भाष्य को एडिट करें