अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
यः प॑रु॒षः पा॑रुषे॒योऽव॑ध्वं॒स इ॑वारु॒णः। त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ॥
स्वर सहित पद पाठय: । प॒रु॒ष: । पा॒रु॒षे॒य: । अ॒व॒ध्वं॒स:ऽइ॑व । अ॒रु॒ण: । त॒क्मान॑म् । वि॒श्व॒धा॒ऽवी॒र्य॒ । अ॒ध॒राञ्च॑म् । परा॑ । सु॒व॒ ॥२२.३॥
स्वर रहित मन्त्र
यः परुषः पारुषेयोऽवध्वंस इवारुणः। तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥
स्वर रहित पद पाठय: । परुष: । पारुषेय: । अवध्वंस:ऽइव । अरुण: । तक्मानम् । विश्वधाऽवीर्य । अधराञ्चम् । परा । सुव ॥२२.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यः) तक्मा (परुषः) पॄनहिकलिभ्य उषच्। उ० ४।७५। इति पॄ पालनपूरणयोः−उषच्। निष्ठुरः (पारुषेयः) वुञ्छण्कठजिलसेनिरढञ्०। पा० ४।२।८०। इति पुरुष−ढञ्। परुषाज् जातः (अवध्वंसः) ध्वंसु अधःपतने−अच्। अधःपतनशीलः। राक्षसादिः (अरुणः) रक्तवर्णः (तक्मानम्) ज्वरम् (विश्वधावीर्य) हे सर्वप्रकारसमर्थ (अधराञ्चम्) म० २। निम्नदेशम् (परा) पृथक् (सुव) प्रेरय ॥
इस भाष्य को एडिट करें