अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 10
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
यत्त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः। भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥
स्वर सहित पद पाठयत् । त्वम् । शी॒त: । अथो॒ इति॑ । रू॒र: । स॒ह । का॒सा । अवे॑पय: । भी॒मा: । ते॒ । त॒क्म॒न् । हे॒तय॑: । ताभि॑: । स्म॒ । परि॑ । वृ॒ङ्गि॒ध । न॒: ॥२२.१०॥
स्वर रहित मन्त्र
यत्त्वं शीतोऽथो रूरः सह कासावेपयः। भीमास्ते तक्मन्हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥
स्वर रहित पद पाठयत् । त्वम् । शीत: । अथो इति । रूर: । सह । कासा । अवेपय: । भीमा: । ते । तक्मन् । हेतय: । ताभि: । स्म । परि । वृङ्गिध । न: ॥२२.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(यत्) यस्मात् कारणात् (त्वम्) (शीतः) अ० १।२५।४। शीतलः (अथो) अपि च (रूरः) अ० १।२५।४। रुङ् वधे−रक्, दीर्घः। पीडकः (सह) सहितः (कासा) अ० १।१२।३। विभक्तेराकारः। कासेन। रोगविशेषेण (अवेपयः) टुवेपृ कम्पने णिच्−लङ्। कम्पितवानसि (भीमाः) करालाः (ते) तव (तक्मन्) हे ज्वर (हेतयः) हननशक्तयः (ताभिः) हेतिभिः (स्म) अवश्यम् (परि) (वृङ्ग्धि) वृजी वर्जने। परित्यज (नः) अस्मान् ॥
इस भाष्य को एडिट करें