अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 11
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
मा स्मै॒तान्त्सखी॑न्कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम्। मा स्मातो॒ऽर्वाङैः पुन॒स्तत्त्वा॑ तक्म॒न्नुप॑ ब्रुवे ॥
स्वर सहित पद पाठमा । स्म॒ । ए॒तान् । सखी॑न् । कु॒रु॒था॒: । ब॒लास॑म् । का॒सम् । उ॒त्ऽयु॒गम् । मा । स्म॒ । अत॑: । अ॒र्वाङ् । आ । ऐ॒: । पुन॑: । तत् । त्वा॒ । त॒क्म॒न् । उप॑ । ब्रु॒वे॒ ॥२२.११॥
स्वर रहित मन्त्र
मा स्मैतान्त्सखीन्कुरुथा बलासं कासमुद्युगम्। मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्नुप ब्रुवे ॥
स्वर रहित पद पाठमा । स्म । एतान् । सखीन् । कुरुथा: । बलासम् । कासम् । उत्ऽयुगम् । मा । स्म । अत: । अर्वाङ् । आ । ऐ: । पुन: । तत् । त्वा । तक्मन् । उप । ब्रुवे ॥२२.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(स्म) अवश्यम् (एतान्) निर्दिष्टान् (सखीन्) मित्रवत्सहायकान् (मा कुरुथाः) लङि रूपम्, माङि अडभावः। मा कुरु (बलासम्) अ० ४।९।८। बलस्य क्षेप्तारम्। श्लेष्मविकारम् (कासम्) अ० १।१२।३। रोगविशेषम्। (उद्युगम्) उत्+युगि वर्जने−घञर्थे क, नलोपः। सुखवर्जकं क्षयरोगम् (अतः) तस्मात् स्थानात् (अर्वाङ्) अ० ३।२।३। अस्मदभिमुखः सन् (मा आ ऐः) इण् गतौ−लङ्। नागच्छ (पुनः) पश्चात् (तत्) वचनम् (त्वा) त्वाम् (तक्मन्) हे ज्वर ! (उप) उपेत्य (ब्रुवे) कथयामि ॥
इस भाष्य को एडिट करें